SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ वार्षिककृत्यानि – श्लो० ६८ ॥ ] [ ४३१ जिनगृहे स्नपनं स्नात्रम्, तदपि प्रत्यहं पर्वसु वा करणाशक्तेनापि प्रतिवर्षमेकैकं साडम्बरसमग्रसामग्रीमेलनादिपूर्वं कार्यम् ४। तथा देवद्रव्यवृद्ध्यर्थं प्रतिवर्षं ऐन्द्री अन्या वा माला यथाशक्ति ग्राह्या, एवं नवीनभूषणचन्द्रोदयादि यथाशक्ति मोच्यम् ५। तथा सर्वाङ्गाभरणविशिष्टाङ्गपत्रभङ्गीरचन-पुष्पगृहकदलीगृहपुत्रिकाजलयन्त्रादिरचना-नानागीतनृत्याद्युत्सवैर्महापूजा रात्रिजागरणं च कार्ये ६-७ । श्रुतज्ञानस्य पुस्तकादेः कर्पूरादिना पूजामात्रं सर्वदाऽपि सुकरम्, तदशक्तेनापि प्रतिवर्षमेकशः कार्या ८| तथा नमस्कारावश्यकसूत्रोपदेशमालादिज्ञानदर्शनविविधतपःसम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैकं तत्प्रतिवर्षं विधिवत्कार्यम्, नमस्कारस्योपधानोद्वहनादिविधिपूर्वकमालारोपणेन आवश्यकादिसूत्राणाम् । एवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरादिढौकनादिना, उपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना, दर्शनादीनां शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिनोद्यापनानि कार्याणि ९ । तीर्थप्रभावनानिमित्तं प्रतिवर्षमेकैकशोऽपि गुरुप्रवेशोत्सवसङ्घपरिधापनिका प्रभावनादि च कार्यम् । तत्र गुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः । यतः – “ अभिगमणवंदणनमंसणेण " [ उपदेशमाला/१६६ ] इत्यादि । न च साधूनां प्रवेशोत्सवोऽनुचित इति वाच्यम्, आगमे उपेत्य तत्करणस्य प्रतिपादनात् । तथाहि साधोः प्रतिमाधिकारे व्यवहारभाष्यम् - “तीरिअ उब्भामगनिउगदरिसणं सन्निसाहुमप्पाहे । डिभोइअ असई, सावगसंघो व सक्कारं ॥१॥ [ व्य. भा. / ८०८] अस्या भावार्थोऽयं –प्रतिमासमापकः साधुः प्रत्यासन्नग्रामे बहुसाधुगमनागमनस्थाने आत्मानं दर्शयति । दर्शयंश्चात्मानं प्रतिमां समाप्यागतोऽहमिति कथयति, ततो गुरवो राजादीन् कथयति –यदमुको महातपस्वी समाप्ततपा इति महता सत्कारेण गच्छे प्रवेशनीय इति राजा, तदभावे ग्रामाधिकारी, तदभावे समृद्धश्रावकस्तद्भावे च चतुर्विधः सङ्घः सत्कुरुते, जीतमेतदिति । तथा सङ्घस्यापि नालिकेरप्रदानादिरूपा प्रभावना कार्या, शासनप्रभावनायाश्च तीर्थकृत्त्वादिफलत्वात् । उक्तं च - १. नृत्ता' इति श्राद्धविधिवृत्तौ प० २५९ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy