________________
४३२]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
"अप्पुव्वनाणगहणे, सुअभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो" ॥१॥ [ उप.प./५०२ ] तथा - "कारणादधिकां मन्ये, भावनातः प्रभावनाम् ।
भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना" ॥२॥[ ] इति १०| तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या । यतः – "प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः ।
शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः " ॥१॥
आवश्यक निर्युक्तौ तु तस्या: काल एवमुक्तः
"पेक्खिअचाउम्मासिअ, आलोयण णिअमसो उ दायव्वा ।
गहणं अभिग्गहाण य, पुव्वग्गहिए णिवेदेउं" ॥१॥[पञ्चा.१५/१०] प्रथममालोचनेति कः शब्दार्थः ?, उच्यते, आ सामस्त्येन स्वगताकरणीयस्य वागादियोगत्रयेण गुरोः पुरो भावशुद्धया प्रकटनामालोचना । यतः पञ्चाशके - 'आलोअणं अकिच्चे, अभिविहिणा दंसणं ति लिंगेहिं । वइमाइएहिँ सम्मं, गुरुणो आलोयणा णेआ" ॥१॥ [ पञ्चा.१५/२] तद्विधिश्चायं श्राद्धजीतकल्पपञ्चाशकाद्युक्तो । यथा -
"एत्थ पुण एस विही, अरिहो अरिहंमि दलइ अ कमेणं ।
,
सेवणाइणा खलु सम्मं दव्वाइसुद्धस्स" ॥१॥ [पञ्च.१५/८ ] व्याख्या –अत्र –आलोचनायामेष - वक्ष्यमाणो विधि: - कल्पः, तद्यथा - अर्ह: - आलोचनादानोचितः, अर्हे - आलोचनादानयोग्ये गुरौ विषयभूते, ददाति - प्रयच्छति, तथा क्रमेण, किंविधेन तेन ? इत्याह - आसेवनादिना, आदिशब्दादालोचनाक्रमग्रहः । आसेवनाक्रमेण आलोचनाक्रमेणेत्यर्थः, तथा 'सम्यक्' यथावत्, आकुट्टिकादिभावप्रकाशनतः, तथा द्रव्यादि ४ शुद्धौ सत्यां, प्रशस्तेषु द्रव्यादिष्वित्यर्थः, इति द्वारगाथा । अथार्हद्वारविवरणं –
44
"संविग्गो उ अमायी, मइमं कप्पट्ठिओ अणासंसी ।
पण्णवणिज्जो सड्डो, आणाउत्तो दुकडतावी ॥१॥ [ पञ्चा.१५/१२]
१. कारणादधिकां मन्ये भावनातः प्रभावनाम् - L.C. नास्ति । 'प्रकारेणाधिका युक्तं भावनातः प्रभावना' इति अत्रैव उत्तरार्धं श्राद्धविधिवृत्तौ प० २७ A ॥ २. चाउम्मासिअ वरिसे आलो० इति श्राद्धविधिवृत्तौ ॥ ३. सुद्धी - इति पञ्चाशके ॥
D:\new/d-2.pm5\3rd proof