Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 455
________________ रात्रिकर्तव्यम्-श्लो० ६६॥] [४१५ निद्रां कुर्याद् इत्याह –'अर्हदिति' अर्हन्त -तीर्थकरा गुरवो -धर्माचार्यास्तेषां स्मृति:मनस्यारोपणं सा पुरस्सरा-पूर्वं यस्य तत्तथा, क्रियाविशेषणमिदम् , उपलक्षणं चैतत् चतुःशरणगमन-दुष्कृतगर्हा-सुकृतानुमोदना-सर्वजीवक्षमण-प्रत्याख्यानकरणाऽष्टादशपापस्थानवर्जन-पञ्चनमस्कारस्मरणप्रभृतीनाम् , न ह्येतद्विना श्रावकस्य शयनं युक्तम् , तत्र देवस्मृतिः-नमो वीअरायाणं, सव्वण्णूणं, तेलोक्कपूइआणं, जहट्ठिअवत्थुवाईणं [पञ्चसूत्रे सूत्र/१] इत्यादि, गुरुस्मृतिश्च 'धन्यास्ते ग्रामनगरजनपदादयो, येषु मदीयधर्माचार्या विहरन्तीत्यादि' । चैत्यवन्दनादिना वा नमस्करणं स्मृतिः । यदाह दिनकृत्ये -"सुमरित्ता भुवणनाहे" [श्रा.दि./२९५ ] त्ति वृत्तौ, स्मृत्वा धातूनामनेकार्थत्वाद् वन्दित्वा, भुवननाथान् जगत्प्रभून् , चैत्यवन्दनां कृत्वेत्यर्थः । चतुःशरणगमनं चैवम् - "क्षीणरागादिदोषौघाः, सर्वज्ञा विश्वपूजिताः । यथार्थवादिनोऽर्हन्तः, शरण्याः शरणं मम ॥१॥[ ] ध्यानाग्निदग्धकर्माणः, सर्वज्ञाः सर्वदर्शिनः । अनन्तसुखवीर्येद्धाः, सिद्धाश्च शरणं मम ॥२॥[ ] ज्ञानदर्शनचारित्रयुताः, स्वपरतारकाः । जगत्पूज्याः साधवश्च, भवन्तु शरणं मम ॥३॥[] संसारदुःखसंहर्ता, कर्ता मोक्षसुखस्य च । जिनप्रणीतधर्मश्च, सदैव शरणं मम" ॥४॥[] एवं श्रावकस्य चतुःशरणकरणं महते गुणाय । यदाह - "चउरंगो जिणधम्मो, न कओ चउरंगसरणमवि न कयं । चउरंगभवच्छेओ, न कओ हा हारिओ धम्मो" ॥१॥[ ] त्ति । दुष्कृतगर्हणं च"जं मणवयकाएहिं, कयकारिअअणुमईहि आयरिअं। धम्मविरुद्धमसुद्धं, सव्वं गरिहामि तं पावं" ॥१॥[ ] इत्यादि । सुकृतानुमोदनं चेत्थम् - "अहवा सव्वं चिअ, वीअरायवयणाणुसारि जं सुकयं । कालत्तए वि तिविहं, अणुमोएमो तयं सव्वं" ॥१॥[ ] इत्यादि । १. L.P. । सा-मु० नास्ति । २. देविंदपूइआणं इति पञ्चसूत्रे ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500