Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
वार्षिककृत्यानि ११-श्लो० ६८॥]
[४२५ नि:स्वस्य तावताऽपि महाफलत्वात् , शक्त्या च क्रियमाणेयं महागुणकरी । यतः पञ्चाशके -
"सत्तीइ संघपूजा, विसेसपूजा उ बहुगुणा एसा ।
जं एस सुए भणिओ, तित्थयराणंतरो संघो ॥१॥[ पञ्चा./८-३८] इति सङ्घार्चाविधिः १।
साधर्मिकाणां वात्सल्यमपि प्रतिवर्षं यथाशक्ति कार्यम् , सर्वेषां तत्करणाशक्तेनाप्येकद्वयादीनामवश्यं तत् कार्यम् , समानधर्माणो हि प्रायेण दुष्प्रापाः । यतः -
"सर्वैः सर्वे मिथः सर्वसम्बन्धा लब्धपूर्विणः ।
सार्मिकादिसम्बन्धलब्धारस्तु मिताः क्वचित्" ॥१॥[] तेषां महत्पुण्यलभ्यसङ्गमानां प्रतिपत्तेस्तु फलमतुलमेव । यतः -
“एगत्थ सव्वधम्मो, साहम्मिअवच्छलं तु एगत्थ ।
बुद्धितुलाए तुलिआ, दो वि अतुल्लाई भणिआई" ॥१॥[] साधर्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागवताराधनम् , राजपिण्डस्य मुनीनामकल्पत्वादिति । तद्विधिस्त्वेवं -सति सामर्थ्य प्रत्यहमेकद्वयादिसार्मिकाणामन्यथा तु स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मिकजनानां सविनयं निमन्त्रणम् , भोजनवेलायां स्वयं पादप्रक्षालनादिप्रतिपत्तिपुरस्सरं विशिष्टासनेषु संनिवेश्य प्रवरभाजनेषु नानाव्यञ्जनसहितविशिष्टभोजनताम्बूलवस्त्राभरणादिदानम् , आपन्निमग्नानां च स्वधनव्ययेनाभ्युद्धरणम् , अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम् । उक्तमपि -
"न कयं दीणुद्धरणं, न कयं साहम्मिआण वच्छल्लं ।
हिअयंमि वीअराओ, न धारिओ हारिओ जम्मो" ॥१॥[वि.सा./४२९] धर्मे च विषीदतां तेन तेन प्रकारेण स्थैर्यारोपणं, प्रमाद्यतां च स्मारणवारणचोदनप्रतिचोदनादिकरणम् । यतः -
"सारणा वारणा चेव, चोअणा पडिचोअणा।
सावएणावि दायव्वा, सावयस्स हिआवहा" ॥१॥ [ श्रा.दि/२०९] एतदर्थो यथा –विस्मृतस्य धर्मकृत्यस्य ज्ञापनं स्मारणा, तथा कुसंसर्गाद्यकृत्यस्य निषेधनं वारणा, एतयोश्च सततं क्रियमाणयोहि कस्यचित् प्रमादबहुलस्य नियमस्खलितादौ
१. तुला- श्राद्धविधि प० २१ B ॥ २. सावयाणां-इति श्राद्धदिनकृत्ये । 'श्रावकाणामित्यत्र बहुवचनं दुष्षमादोषेण प्रमादप्राचुर्यख्यापनार्थमिति' इति तत्रैव वृत्तौ ।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500