Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४२६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः 'युक्तं किं श्राद्धकुलोत्पन्नस्य चेत्थं प्रवर्तितुं' ? इत्यादिवाक्यैः सोपालम्भं प्रेरणं चोदना, तथा तत्रैवासकृत्स्खलितादौ धिग्ते जन्मेत्यादिनिष्ठुरवाक्यैर्गाढतरप्रेरणा प्रतिचोदना। उक्तं च -
“पम्हढे सारणा वुत्ता, अणायारस्स वारणा।
चुक्काणं चोअणा होइ निट्ठरं पडिचोअणा" ॥१॥ [ गा.स./८० ] इति । एतश्च भाववात्सल्यम् । यतो दिनकृत्ये -
"साहम्मिआण वच्छल्लं, एअं अन्नं विआहिअं।
धम्मट्ठाणेसु सीअंतं, सव्वभावेण चोअणा" ॥१॥[ श्रा.दि./२०८] साधर्मिकाणां वात्सल्यमेतदनन्तरोक्तं द्रव्यवात्सल्यम् , अन्यदिति भाववात्सल्यमिति तदर्थः । इत्थं च तेषां प्रतिपत्तिरेव श्रेयसी न तु तैः सह कलहादि । यतः -
"विवायं कलहं चेव, सव्वहा परिवज्जए। साहम्मिएहिं सद्धिं तु , जओ एअं विआहियं ॥१॥[ श्रा.दि./२०२ ] जो किर पहणइ, साहम्मिमि कोवेण दंसणमयंमि ।
आसायणं तु सो कुणइ, निक्किवो लोगबंधूणं" ॥२॥[ श्रा.दि./२०३] इति सार्मिकवात्सल्यद्वारम् २। ___ अथ 'जत्ततिगं'ति प्रस्तावात् जिनयात्रात्रिकं -तत्र जिनयात्रेति कः शब्दार्थः ?, उच्यते पञ्चाशकगाथया
"जत्ता महसवो खलु , उद्दिस्स जिणाण कीरए जो उ।
सो जिणजत्ता भण्णइ, तीइ विहाणं तु दाणाइ" ॥१॥[ पञ्चा.९।४] महोत्सव एव यात्रा न तु देशान्तरगमनमिति तवृत्तिः[ तुला प० १५१] जिनानुद्दिश्य महोत्सवो जिनयात्रेतिभावः । तस्या विधानं तु -कल्पः, दानादि, सर्वयात्रासाधारणः । यथा -
"दाणं तवोवहाणं, सरीरसक्कारमो जहासत्ति ।
उचिअं च गीअवाइअथुइथोत्ता पेच्छणाईआ" ॥१॥[पञ्चा./९-५] प्रेक्षणकानामवसरो हि यात्राया आरम्भो मध्यमन्तोऽपि च । यतः -"पत्थावो पुण होउ, इमेसिमारंभमाईओ" [ पञ्चा.९/११] इति, दानस्यावसरस्तु यात्रारम्भकाल एव । यतस्तत्रैव -
१. L.P.C. । तवेत्थं-मु० श्राद्धदिनकृत्यवृत्तौ च० प० ४१४ ॥ २. जिणे स-इति पञ्चाशके । 'जिनान् अर्हतः, स इति महोत्सवः' इति तत्र वृत्तौ ॥ ३. णेओ-इति पञ्चाशके । 'ज्ञेय' इति: तत्र वृत्तौ ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500