SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४२६] [धर्मसंग्रहः-द्वितीयोऽधिकारः 'युक्तं किं श्राद्धकुलोत्पन्नस्य चेत्थं प्रवर्तितुं' ? इत्यादिवाक्यैः सोपालम्भं प्रेरणं चोदना, तथा तत्रैवासकृत्स्खलितादौ धिग्ते जन्मेत्यादिनिष्ठुरवाक्यैर्गाढतरप्रेरणा प्रतिचोदना। उक्तं च - “पम्हढे सारणा वुत्ता, अणायारस्स वारणा। चुक्काणं चोअणा होइ निट्ठरं पडिचोअणा" ॥१॥ [ गा.स./८० ] इति । एतश्च भाववात्सल्यम् । यतो दिनकृत्ये - "साहम्मिआण वच्छल्लं, एअं अन्नं विआहिअं। धम्मट्ठाणेसु सीअंतं, सव्वभावेण चोअणा" ॥१॥[ श्रा.दि./२०८] साधर्मिकाणां वात्सल्यमेतदनन्तरोक्तं द्रव्यवात्सल्यम् , अन्यदिति भाववात्सल्यमिति तदर्थः । इत्थं च तेषां प्रतिपत्तिरेव श्रेयसी न तु तैः सह कलहादि । यतः - "विवायं कलहं चेव, सव्वहा परिवज्जए। साहम्मिएहिं सद्धिं तु , जओ एअं विआहियं ॥१॥[ श्रा.दि./२०२ ] जो किर पहणइ, साहम्मिमि कोवेण दंसणमयंमि । आसायणं तु सो कुणइ, निक्किवो लोगबंधूणं" ॥२॥[ श्रा.दि./२०३] इति सार्मिकवात्सल्यद्वारम् २। ___ अथ 'जत्ततिगं'ति प्रस्तावात् जिनयात्रात्रिकं -तत्र जिनयात्रेति कः शब्दार्थः ?, उच्यते पञ्चाशकगाथया "जत्ता महसवो खलु , उद्दिस्स जिणाण कीरए जो उ। सो जिणजत्ता भण्णइ, तीइ विहाणं तु दाणाइ" ॥१॥[ पञ्चा.९।४] महोत्सव एव यात्रा न तु देशान्तरगमनमिति तवृत्तिः[ तुला प० १५१] जिनानुद्दिश्य महोत्सवो जिनयात्रेतिभावः । तस्या विधानं तु -कल्पः, दानादि, सर्वयात्रासाधारणः । यथा - "दाणं तवोवहाणं, सरीरसक्कारमो जहासत्ति । उचिअं च गीअवाइअथुइथोत्ता पेच्छणाईआ" ॥१॥[पञ्चा./९-५] प्रेक्षणकानामवसरो हि यात्राया आरम्भो मध्यमन्तोऽपि च । यतः -"पत्थावो पुण होउ, इमेसिमारंभमाईओ" [ पञ्चा.९/११] इति, दानस्यावसरस्तु यात्रारम्भकाल एव । यतस्तत्रैव - १. L.P.C. । तवेत्थं-मु० श्राद्धदिनकृत्यवृत्तौ च० प० ४१४ ॥ २. जिणे स-इति पञ्चाशके । 'जिनान् अर्हतः, स इति महोत्सवः' इति तत्र वृत्तौ ॥ ३. णेओ-इति पञ्चाशके । 'ज्ञेय' इति: तत्र वृत्तौ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy