SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ वार्षिककृत्यानि ११-श्लो० ६८॥] [४२५ नि:स्वस्य तावताऽपि महाफलत्वात् , शक्त्या च क्रियमाणेयं महागुणकरी । यतः पञ्चाशके - "सत्तीइ संघपूजा, विसेसपूजा उ बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो संघो ॥१॥[ पञ्चा./८-३८] इति सङ्घार्चाविधिः १। साधर्मिकाणां वात्सल्यमपि प्रतिवर्षं यथाशक्ति कार्यम् , सर्वेषां तत्करणाशक्तेनाप्येकद्वयादीनामवश्यं तत् कार्यम् , समानधर्माणो हि प्रायेण दुष्प्रापाः । यतः - "सर्वैः सर्वे मिथः सर्वसम्बन्धा लब्धपूर्विणः । सार्मिकादिसम्बन्धलब्धारस्तु मिताः क्वचित्" ॥१॥[] तेषां महत्पुण्यलभ्यसङ्गमानां प्रतिपत्तेस्तु फलमतुलमेव । यतः - “एगत्थ सव्वधम्मो, साहम्मिअवच्छलं तु एगत्थ । बुद्धितुलाए तुलिआ, दो वि अतुल्लाई भणिआई" ॥१॥[] साधर्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागवताराधनम् , राजपिण्डस्य मुनीनामकल्पत्वादिति । तद्विधिस्त्वेवं -सति सामर्थ्य प्रत्यहमेकद्वयादिसार्मिकाणामन्यथा तु स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मिकजनानां सविनयं निमन्त्रणम् , भोजनवेलायां स्वयं पादप्रक्षालनादिप्रतिपत्तिपुरस्सरं विशिष्टासनेषु संनिवेश्य प्रवरभाजनेषु नानाव्यञ्जनसहितविशिष्टभोजनताम्बूलवस्त्राभरणादिदानम् , आपन्निमग्नानां च स्वधनव्ययेनाभ्युद्धरणम् , अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम् । उक्तमपि - "न कयं दीणुद्धरणं, न कयं साहम्मिआण वच्छल्लं । हिअयंमि वीअराओ, न धारिओ हारिओ जम्मो" ॥१॥[वि.सा./४२९] धर्मे च विषीदतां तेन तेन प्रकारेण स्थैर्यारोपणं, प्रमाद्यतां च स्मारणवारणचोदनप्रतिचोदनादिकरणम् । यतः - "सारणा वारणा चेव, चोअणा पडिचोअणा। सावएणावि दायव्वा, सावयस्स हिआवहा" ॥१॥ [ श्रा.दि/२०९] एतदर्थो यथा –विस्मृतस्य धर्मकृत्यस्य ज्ञापनं स्मारणा, तथा कुसंसर्गाद्यकृत्यस्य निषेधनं वारणा, एतयोश्च सततं क्रियमाणयोहि कस्यचित् प्रमादबहुलस्य नियमस्खलितादौ १. तुला- श्राद्धविधि प० २१ B ॥ २. सावयाणां-इति श्राद्धदिनकृत्ये । 'श्रावकाणामित्यत्र बहुवचनं दुष्षमादोषेण प्रमादप्राचुर्यख्यापनार्थमिति' इति तत्रैव वृत्तौ । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy