SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ वार्षिककृत्यानि-श्लो० ६८॥] [४२७ "आरंभे च्चिअ दाणं, दीणादीण मणतुट्ठिजणणत्थं । रण्णामाघायकारणमणहं गुरुणा ससत्तीए" ॥१॥ [ पञ्चा.९/१२] उत्तरार्द्धव्याख्या -नृपेण –राज्ञा, मा -लक्ष्मीः, सा च द्वेधा –धनलक्ष्मी: प्राणलक्ष्मीश्च' अतस्तस्या घातो -हननं तस्याभावः अमाघातोऽमारिरद्रव्यापहारश्चेत्यर्थः, तस्य कारणं - विधापनम् , अनघं–निर्दोषम् , वधप्रवृत्तभोजनवृत्तिमात्रसम्पादनेन, अन्यथा तवृत्त्युच्छेदापत्तेः, 'गुरुणा' प्रावचनिकेन, 'स्वशक्त्या' स्वसामर्थ्येन, तादृग्गुर्वभावे श्रावकादिभिरपि स्वद्रव्यप्रदानपूर्वं कारयितव्य इति भावः । सा च यात्रा त्रिविधा । यदुक्तं - "अष्टाहिकाभिधामेकां, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः" ॥१॥[ ] तत्राष्टाहिकास्वरूपं पूर्वमुक्तम् , तासु च सविस्तरं सर्वचैत्यपरिपाटीकरणादिमहोत्सवोऽष्टाहिकायात्रा । इयं चैत्ययात्राऽप्युच्यते । रथयात्रा तु शृङ्गारितप्रवररथे जिनप्रतिमां संस्थाप्य समहं स्नात्रपूजादिपुरस्सरं समस्तनगरे पूजाप्रवर्तनादिरूपा । यतो हैमपरिशिष्टपर्वणि "सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे, सङ्घनान्यत्र वत्सरे ॥१॥ [ प.प.११/६६] मण्डपं चैत्ययात्रायां, सुहस्ती भगवानपि । एत्य नित्यमलञ्चक्रे, श्रीसङ्घन समन्वितः ॥२॥ [ प.प.११/६७ ] सुहस्तिस्वामिनः शिष्यः, परमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं, निषसाद च सम्प्रतिः ॥३॥ [ प.प.११/६८ ] यात्रोत्सवाले सङ्केन, रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति, सम्पूर्णो रथयात्रया ॥४॥[ प.प.११/६९] रथोऽथ रथशालाया, दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिग्मुखः ॥५॥ [ प.प.११/७० ] श्रीमदर्हत्प्रतिमाया, रथस्थाया महद्धिभिः । विधिज्ञैः स्नात्रपूजादि, श्रावकैरुपचक्रमे ॥६॥ [ प.प.११/७१] १. राज्ञा-नृपेण-इति पञ्चाशकवृत्तौ ॥ २. P.C. परिशिष्टपर्व-श्राद्धविधिवृत्त्योश्च । ता:-मु० ॥ ३. वान्ते-इतिपरिशिष्टपर्वणि ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy