Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४२४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः अट्ठमीचउद्दसीसुं , कल्लाणतिहीसु तवविसेसेसुं। काहामि उज्जममहं, धम्मत्थं वरिसमज्झंमि ॥२३॥ [ श्रा.वि./गा.१२व.] धम्मत्थं मुहपत्ती, जलछाणण ओसहाइदाणं च । साहम्मिअवच्छल्लं, जहसत्ति गुरूण विणओ अ ॥२४॥ [श्रा.वि./गा.१२वृ.] मासे मासे सामाइअं च वरिसंमि पोसहं तु तहा ।
काहामि ससत्तीए, अतिहीणं संविभागं च" ॥२५॥ [ श्रा.वि./गा.१२वृ.] इति चतुर्मासीकृत्यानि ।
अथ वार्षिककृत्यानि यथा –सङ्घार्चनादीनि बहुविधानि, यतः श्राद्धविधावेकादशद्वारैः प्रतिपादितानि । गाथोत्तरार्द्धं -
"पइवरिसं सङ्घच्चण १ साहम्मिअभत्ति २ जत्ततिगं ३ ॥१॥[श्रा.वि./गा.१२उ.] जिणगिहण्हवणं ४ जिणधणवुड्डी ५ महपूअ ६ धम्मजागरिआ ७ । सुअपूआ ८ उज्जवणं ९, तह तित्थपहावणा सोही १० ॥२॥[ श्रा.वि./गा.१३]
तत्र सङ्घपूजायां निजविभवाद्यनुसारेण भृशादरबहुमानाभ्यां साधुसाध्वीयोग्यमाधाकर्मादिदोषरहितं वस्त्र-कम्बल-पादप्रोञ्छन सूत्रोर्णापात्र-दण्डक-दण्डिका-सूचीकण्टककर्षण-कागद-कुम्पक-लेखनी-पुस्तकादिकं श्रीगुरुभ्यो दत्ते । यद् दिनकृत्यसूत्रम् -
"वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं ।
दंडं संथारयं सिज्जं, अन्नं जं किंचि सुज्झई" ॥१॥[श्रा.दि./१७८] एवं प्रातिहारिकपीठफलकपट्टिकाद्यपि संयमोपकारि सर्वं साधुभ्यः श्रद्धया देयम् । सूच्यादीनामुपकरणत्वं तु श्रीकल्पे उक्तं । यथा -
“असणाई वत्थाई, सूआइ चउक्कगा तिन्नि" [ ] अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि, सङ्कलनया द्वादश । यथा -अशनं १ पानं २ खादिमं ३ स्वादिमं ४, वस्त्रं १ पात्रं २ कम्बलं ३ पादप्रोञ्छनम् ४, सूची १ पिष्पलको २ नखच्छेदनकं ३ कर्णशोधनकं ४ चेति । एवं श्रावकश्राविकारूपसङ्घमपि यथाशक्ति सभक्तिपरिधापनकादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि। सङ्घार्चा हि उत्कृष्टादिभेदात् त्रिधा -तत्रोत्कृष्टा सर्वपरिधापनेन, जघन्या सूत्रमात्रादिना, एकव्यादेर्वा, शेषा मध्यमा । तत्राधिकव्ययनेऽशक्तोऽपि प्रतिवर्षं गुरुभ्यो मुखवस्त्रादिमात्रं द्वित्रादिश्राद्धेभ्यः पूगादीनि दत्त्वा सङ्घार्चाकृत्यं भक्त्या सत्यापयति,
१. पात्रो दङ्ककतुम्बकदण्डक' इति श्राद्धदिनविधिवृत्तौ ।।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500