Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 453
________________ 'विशाललोचन' सूत्रं सविवरणम्-श्लो० ६५॥] [४१३ कषायतापपीडितप्राणिसमाधि करोति, स शुक्रमासोद्भववृष्टिसन्निभः -ज्येष्ठमासजन्यवर्षासदृशो, गिरां विस्तर: –सिद्धान्तरूपो वाक्प्रसरः, मयि विषये, तुष्टिं -तोषम् , दधातु - पुष्णातु ॥३॥ तेथा-"विशाललोचनदलं, प्रोद्यतांशुकेसरम् । प्रातर्वीरजिनेन्द्रस्य, मुखपद्मं पुनातु वः" ॥१॥ विशाललोचनरूपपत्रं दीप्यद्दन्तकिरणकेसरं वीरजिनेन्द्रस्य मुखपद्मं प्रातर्वो -युष्माकं पुनातु ॥१॥ "येषामभिषेककर्म कृत्वा, मत्ता हर्षभरात् सुखं सुरेन्द्राः। तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः" ॥२॥ येषां जिनेन्द्राणां अभिषेककार्यं विधाय, सुखमिति क्रियाविशेषणं, हर्षभरात् [मत्ता:] सुरेन्द्राः, तृणमपि -तृणमात्रमपि, नाकं -स्वर्गम् , न गणयन्ति, ते जिनेन्द्राः प्रातर्वः शिवाय सन्तु ॥२॥ "कलङ्कनि*मुक्तममुक्तपूर्णतं, कुतर्कराहुग्रसनं सदोदयम् । ___ अपूर्वचन्द्रं जिनचन्द्रभाषितं, दिनागमे नौमि बुधैर्नमस्कृतम् *" ॥३॥ कलङ्कनिर्मुक्तं –कलङ्करहितम् , अमुक्ता पूर्णता येन तत् अमुक्तपूर्णतम् , पूर्णमित्यर्थः, कुतर्कराहुग्रसनं -कुविचाररूपराहुभक्षकम् , सदोदयम् , अतोऽपूर्वचन्द्रमिव, ईदृशं जिनचन्द्रभाषितं -जिनेन्द्रवचनम् , दिनागमे -प्रभाते, नौमि, पुनः कीदृशम् ?बुधैर्नमस्कृतम् ॥३॥ अथ सप्ततिशतजिनस्तुतिः - __ "वरकनकशङ्खविद्रुममरकतघनसन्निभं विगतमोहम् । सप्ततिशतं जिनानां, सर्वामरपूजितं वन्दे" ॥१॥ वरं -श्रेष्ठं यत् कनकं -स्वर्णं शङ्खः -कम्बुः विद्रुमः -प्रवालं मरकतं -नीलरत्नं घनो -मेघस्तैः सन्निभं तत् सदृशवर्णम् , पञ्चवर्णमित्यर्थः, तथा विगतमोहं -मोहरहितम् , तथा सर्वामरपूजितं -सकलदेवमहितम् , ईदृशं जिनानां सप्ततिशतं-जिनसम्बन्धि सप्तत्यधिकशतम् , वन्दे -नौमीत्यर्थलेशः । १. अथ-C. मूल L. || २. मत्ताः-L.P.C. नास्ति ॥ ३. * * चिह्नद्वयमध्यवर्ती पाठः मु० मध्ये कोष्ठके C. प्रतौ पार्श्वभागे वर्तते ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500