________________
'विशाललोचन' सूत्रं सविवरणम्-श्लो० ६५॥]
[४१३ कषायतापपीडितप्राणिसमाधि करोति, स शुक्रमासोद्भववृष्टिसन्निभः -ज्येष्ठमासजन्यवर्षासदृशो, गिरां विस्तर: –सिद्धान्तरूपो वाक्प्रसरः, मयि विषये, तुष्टिं -तोषम् , दधातु - पुष्णातु ॥३॥ तेथा-"विशाललोचनदलं, प्रोद्यतांशुकेसरम् ।
प्रातर्वीरजिनेन्द्रस्य, मुखपद्मं पुनातु वः" ॥१॥ विशाललोचनरूपपत्रं दीप्यद्दन्तकिरणकेसरं वीरजिनेन्द्रस्य मुखपद्मं प्रातर्वो -युष्माकं पुनातु ॥१॥
"येषामभिषेककर्म कृत्वा, मत्ता हर्षभरात् सुखं सुरेन्द्राः।
तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः" ॥२॥ येषां जिनेन्द्राणां अभिषेककार्यं विधाय, सुखमिति क्रियाविशेषणं, हर्षभरात् [मत्ता:] सुरेन्द्राः, तृणमपि -तृणमात्रमपि, नाकं -स्वर्गम् , न गणयन्ति, ते जिनेन्द्राः प्रातर्वः शिवाय सन्तु ॥२॥
"कलङ्कनि*मुक्तममुक्तपूर्णतं, कुतर्कराहुग्रसनं सदोदयम् । ___ अपूर्वचन्द्रं जिनचन्द्रभाषितं, दिनागमे नौमि बुधैर्नमस्कृतम् *" ॥३॥ कलङ्कनिर्मुक्तं –कलङ्करहितम् , अमुक्ता पूर्णता येन तत् अमुक्तपूर्णतम् , पूर्णमित्यर्थः, कुतर्कराहुग्रसनं -कुविचाररूपराहुभक्षकम् , सदोदयम् , अतोऽपूर्वचन्द्रमिव, ईदृशं जिनचन्द्रभाषितं -जिनेन्द्रवचनम् , दिनागमे -प्रभाते, नौमि, पुनः कीदृशम् ?बुधैर्नमस्कृतम् ॥३॥
अथ सप्ततिशतजिनस्तुतिः - __ "वरकनकशङ्खविद्रुममरकतघनसन्निभं विगतमोहम् ।
सप्ततिशतं जिनानां, सर्वामरपूजितं वन्दे" ॥१॥ वरं -श्रेष्ठं यत् कनकं -स्वर्णं शङ्खः -कम्बुः विद्रुमः -प्रवालं मरकतं -नीलरत्नं घनो -मेघस्तैः सन्निभं तत् सदृशवर्णम् , पञ्चवर्णमित्यर्थः, तथा विगतमोहं -मोहरहितम् , तथा सर्वामरपूजितं -सकलदेवमहितम् , ईदृशं जिनानां सप्ततिशतं-जिनसम्बन्धि सप्तत्यधिकशतम् , वन्दे -नौमीत्यर्थलेशः ।
१. अथ-C. मूल L. || २. मत्ताः-L.P.C. नास्ति ॥ ३. * * चिह्नद्वयमध्यवर्ती पाठः मु० मध्ये कोष्ठके C. प्रतौ पार्श्वभागे वर्तते ॥
D:\new/d-2.pm5\3rd proof