________________
४१४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः साम्प्रतं प्रतिक्रमणकरणानन्तरं यत् कर्त्तव्यं तदाह –'गुरोः' धर्माचार्यस्य 'विश्रामणा' श्रमापनयनसम्बाधनादिरूपा, उपलक्षणत्वात् संयमयात्रापृच्छाद्यपि ग्राह्यम् , चः समुच्चये, एवो निश्चये, अन्वयस्तूक्त एव । अत्र च यद्यपि साधव उत्सर्गतः सम्बाधनां न कारयन्ति, "संवाहणा दंतपहोअणा य" [ दशवकालिक ३।३] इतिवचनात् , तथापि द्वितीयपदे साधुभ्यः सकाशात् , तदभाव तथाविधश्रावकादेरपि कारयन्त्येव, एवं श्रमापनयनाद्यपि, परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवतीति । ततो विश्रामणकरणानन्तरं स्वाध्यायस्याणुव्रतविध्यादिस्मरणस्य नमस्कारादिपरावर्तनस्य वाचनादिपञ्चविधस्य वा करणं -विधानम् , यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महधिको वा बहपायः स स्वगह एवावश्यकं स्वाध्यायं च करोति, स्वाध्यायस्य हि महाफलम् । यदाह -
"बारसविहम्मि वि तवे, सब्भितरबाहिरे कुसलदिढे।
न वि किंचि अत्थि होही, सज्झायसमं तवो कम्म" ॥१॥[ ] तथा- "सज्झाएण पसत्थं, झाणं जाणइ अ सच्चपरमत्थं ।
सज्झाए वतो, खणे खणे जाइ वेरग्गं" ॥१॥[उ.मा./३३८ ] इति ॥६५।। साम्प्रतं रात्रिविषयं यद्विधेयं तदर्शयन्नाह -
गत्वा गृहेऽथ कालेऽर्हद्गुरुस्मृतिपुरस्सरम् ।
अल्पनिद्रोपासनं च, प्रायेणाब्रह्मवर्जनम् ॥६६॥ अथेति स्वाध्यायानन्तर्ये, 'गृहे गत्वा' 'काले' अवसरे रात्रेः प्रथमे यामेऽर्द्धरात्रे वा शरीरसात्म्येन, निजगृहे स्वकीयपुत्रादीनां पुरतो धर्मदेशनाकथनेन निद्रावसरे जात इत्यर्थः । अल्पनिद्राया उपासनं -सेवनं विशेषतो गृहिधर्मो भवतीति सम्बन्धः । यतो दिनकृत्ये -
"काऊण सयणवग्गस्स, उत्तमं धम्मदेसणं । सिज्जाठाणं तु गंतूणं, तओ अन्नं करे इमं" ॥१॥[ श्रा.दि./२९४ ] इति । अत्र 'अप्राप्ते हि शास्त्रमर्थवद्'इति [निद्राया अल्पत्वे विधिरित्यवसेयम्] कथं
१. L.P. । नमस्काराप° C. । नमस्कारादपि मु० ॥ २. [दशवैकालिकनि] ॥ ३. करे अन्नं तओ इम-इति श्राद्धदिनकृत्ये ॥ ४. इतोऽग्रे "निद्रेति विशेष्यं, अल्पेति विशेषणं, विशेषणस्य चात्र विधिः, 'सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामेत' इति न्यायात् , निद्रेति विशेष्यं, तेन न तत्र विधिः, दर्शनावरणकर्मोदयेन निद्रायाः स्वतः सिद्धत्वात्' इति पाठ C. मूल, मु० मध्ये च ईदृशे [ ] कोष्ठके वर्तते, L.P. नास्ति ॥
D:\new/d-2.pm5\3rd proof