________________
रात्रिकर्तव्यम्-श्लो० ६६॥]
[४१५ निद्रां कुर्याद् इत्याह –'अर्हदिति' अर्हन्त -तीर्थकरा गुरवो -धर्माचार्यास्तेषां स्मृति:मनस्यारोपणं सा पुरस्सरा-पूर्वं यस्य तत्तथा, क्रियाविशेषणमिदम् , उपलक्षणं चैतत् चतुःशरणगमन-दुष्कृतगर्हा-सुकृतानुमोदना-सर्वजीवक्षमण-प्रत्याख्यानकरणाऽष्टादशपापस्थानवर्जन-पञ्चनमस्कारस्मरणप्रभृतीनाम् , न ह्येतद्विना श्रावकस्य शयनं युक्तम् , तत्र देवस्मृतिः-नमो वीअरायाणं, सव्वण्णूणं, तेलोक्कपूइआणं, जहट्ठिअवत्थुवाईणं [पञ्चसूत्रे सूत्र/१] इत्यादि, गुरुस्मृतिश्च 'धन्यास्ते ग्रामनगरजनपदादयो, येषु मदीयधर्माचार्या विहरन्तीत्यादि' । चैत्यवन्दनादिना वा नमस्करणं स्मृतिः । यदाह दिनकृत्ये -"सुमरित्ता भुवणनाहे" [श्रा.दि./२९५ ] त्ति वृत्तौ, स्मृत्वा धातूनामनेकार्थत्वाद् वन्दित्वा, भुवननाथान् जगत्प्रभून् , चैत्यवन्दनां कृत्वेत्यर्थः । चतुःशरणगमनं चैवम् -
"क्षीणरागादिदोषौघाः, सर्वज्ञा विश्वपूजिताः । यथार्थवादिनोऽर्हन्तः, शरण्याः शरणं मम ॥१॥[ ] ध्यानाग्निदग्धकर्माणः, सर्वज्ञाः सर्वदर्शिनः । अनन्तसुखवीर्येद्धाः, सिद्धाश्च शरणं मम ॥२॥[ ] ज्ञानदर्शनचारित्रयुताः, स्वपरतारकाः । जगत्पूज्याः साधवश्च, भवन्तु शरणं मम ॥३॥[] संसारदुःखसंहर्ता, कर्ता मोक्षसुखस्य च ।
जिनप्रणीतधर्मश्च, सदैव शरणं मम" ॥४॥[] एवं श्रावकस्य चतुःशरणकरणं महते गुणाय । यदाह -
"चउरंगो जिणधम्मो, न कओ चउरंगसरणमवि न कयं ।
चउरंगभवच्छेओ, न कओ हा हारिओ धम्मो" ॥१॥[ ] त्ति । दुष्कृतगर्हणं च"जं मणवयकाएहिं, कयकारिअअणुमईहि आयरिअं।
धम्मविरुद्धमसुद्धं, सव्वं गरिहामि तं पावं" ॥१॥[ ] इत्यादि । सुकृतानुमोदनं चेत्थम् - "अहवा सव्वं चिअ, वीअरायवयणाणुसारि जं सुकयं । कालत्तए वि तिविहं, अणुमोएमो तयं सव्वं" ॥१॥[ ] इत्यादि ।
१. L.P. । सा-मु० नास्ति । २. देविंदपूइआणं इति पञ्चसूत्रे ।।
D:\new/d-2.pm5\3rd proof