________________
[ धर्मसंग्रहः- द्वितीयोऽधिकारः 'सव्वस्स जीवरासिस्स, भावओ धम्मनिहिअनिअचित्तो । सव्वं खमावइत्ता, खमामि सव्वस्स अहयं पि" ॥३॥
सर्वस्य जीवराशेः भावतो, धर्मे निहितं निजचित्तं येन स तथा ईदृशः, सर्वं
क्षमयित्वा क्षाम्यामि सर्वस्य अहमपि ॥३॥
अथ स्तुतिः-‘“सुअदेवया भगवई, नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं, जेसिं सुअसायरे भत्ती " ॥१॥
श्रुतदेवता भगवती ज्ञानावरणीयकर्मसङ्घातं तेषां क्षपयतु सततं येषां श्रुतसागरे भक्तिरस्ति ||१||
"जीसे खित्ते साहू, दंसणनाणेहिं चरणसहिएहिं ।
साहंति मुक्खमग्गं, सा देवी हरउ दुरिआई " ॥१॥
यस्याः क्षेत्रे चारित्रसहितैर्दर्शनज्ञानैः साधवो मोक्षमार्गं साधयन्ति सा देवी दुरितानि तु ॥१॥
अथ वर्द्धमानस्तुतिः –
४१२]
44
" नमोऽस्तु वर्द्धमानाय, स्पर्द्धमानाय कर्मणा ।
तज्जयावाप्तमोक्षाय, परोक्षाय कुतीर्थिनाम्" ॥१॥
वर्द्धमानाय नमोऽस्तु कीदृशाय ? - कर्मणा सह स्पर्द्धमानाय - स्पर्द्धां कुर्वाणाय, पुनः कीदृशाय ? – तज्जयावाप्तमोक्षाय, तस्य - कर्मणो, जयः - अभिभवस्तेनावाप्तप्राप्तो मोक्षो येन स तस्मै, पुनः किंलक्षणाय ? - कुतीर्थिनां परोक्षाय - अदृश्याय ॥१॥ “येषां विकचारविन्दराज्या, ज्यायः क्रमकमलावलीं दधत्या । सदृशैरतिसङ्गतं प्रशस्यं, कथितं सन्तु शिवाय ते जिनेन्द्राः " ॥२॥
येषां जिनेन्द्राणां ज्यायः क्रमकमलावलीं –प्रधानपदपद्म श्रेणिं दधत्या - धारयन्त्या विकचारविन्दराज्या –उन्निद्रसुरसञ्चारितहेमकमल श्रेण्या कृत्वा सदृशैः सह अतिसङ्गतम् – अतिशयमिलनं प्रशस्यं – प्रशंसार्हम् इति कथितं बुधैरिति शेषः, ते जिनेन्द्राः शिवाय - कल्याणाय सन्तु — भवन्तु ॥२॥
-
,
“कषायतापार्दितजन्तुनिर्वृतिं करोति यो जैनमुखाम्बुदोद्गतः ।
स शुक्रमासोद्भववृष्टिसन्निभो, दधातु तुष्टिं मयि विस्तरो गिराम्" ॥३॥ ये जैनमुखाम्बुदोद्गतः –जिनसम्बन्धिमुखरूपमेघोत्पन्नः, कषायतापार्दिजन्तुनिर्वृतिं -
D:\new/d-2.pm5\ 3rd proof