Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 452
________________ [ धर्मसंग्रहः- द्वितीयोऽधिकारः 'सव्वस्स जीवरासिस्स, भावओ धम्मनिहिअनिअचित्तो । सव्वं खमावइत्ता, खमामि सव्वस्स अहयं पि" ॥३॥ सर्वस्य जीवराशेः भावतो, धर्मे निहितं निजचित्तं येन स तथा ईदृशः, सर्वं क्षमयित्वा क्षाम्यामि सर्वस्य अहमपि ॥३॥ अथ स्तुतिः-‘“सुअदेवया भगवई, नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं, जेसिं सुअसायरे भत्ती " ॥१॥ श्रुतदेवता भगवती ज्ञानावरणीयकर्मसङ्घातं तेषां क्षपयतु सततं येषां श्रुतसागरे भक्तिरस्ति ||१|| "जीसे खित्ते साहू, दंसणनाणेहिं चरणसहिएहिं । साहंति मुक्खमग्गं, सा देवी हरउ दुरिआई " ॥१॥ यस्याः क्षेत्रे चारित्रसहितैर्दर्शनज्ञानैः साधवो मोक्षमार्गं साधयन्ति सा देवी दुरितानि तु ॥१॥ अथ वर्द्धमानस्तुतिः – ४१२] 44 " नमोऽस्तु वर्द्धमानाय, स्पर्द्धमानाय कर्मणा । तज्जयावाप्तमोक्षाय, परोक्षाय कुतीर्थिनाम्" ॥१॥ वर्द्धमानाय नमोऽस्तु कीदृशाय ? - कर्मणा सह स्पर्द्धमानाय - स्पर्द्धां कुर्वाणाय, पुनः कीदृशाय ? – तज्जयावाप्तमोक्षाय, तस्य - कर्मणो, जयः - अभिभवस्तेनावाप्तप्राप्तो मोक्षो येन स तस्मै, पुनः किंलक्षणाय ? - कुतीर्थिनां परोक्षाय - अदृश्याय ॥१॥ “येषां विकचारविन्दराज्या, ज्यायः क्रमकमलावलीं दधत्या । सदृशैरतिसङ्गतं प्रशस्यं, कथितं सन्तु शिवाय ते जिनेन्द्राः " ॥२॥ येषां जिनेन्द्राणां ज्यायः क्रमकमलावलीं –प्रधानपदपद्म श्रेणिं दधत्या - धारयन्त्या विकचारविन्दराज्या –उन्निद्रसुरसञ्चारितहेमकमल श्रेण्या कृत्वा सदृशैः सह अतिसङ्गतम् – अतिशयमिलनं प्रशस्यं – प्रशंसार्हम् इति कथितं बुधैरिति शेषः, ते जिनेन्द्राः शिवाय - कल्याणाय सन्तु — भवन्तु ॥२॥ - , “कषायतापार्दितजन्तुनिर्वृतिं करोति यो जैनमुखाम्बुदोद्गतः । स शुक्रमासोद्भववृष्टिसन्निभो, दधातु तुष्टिं मयि विस्तरो गिराम्" ॥३॥ ये जैनमुखाम्बुदोद्गतः –जिनसम्बन्धिमुखरूपमेघोत्पन्नः, कषायतापार्दिजन्तुनिर्वृतिं - D:\new/d-2.pm5\ 3rd proof

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500