Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 451
________________ 'आयरिअउवज्झाए' विवरणम्-श्लो० ६५॥] [४११ कथने को नाम नाधिकार: ?, “पढइ सुणेइ गुणेइ, जणस्स धम्म परिकहेइ'' [ ] इत्यादिवचनात् । तथा चूर्णि:- ‘सो जिणदाससावओ अट्ठमिचउद्दसीसुं उववासं करेइ पुत्थयं च वाएइ'[ ] इत्यादि ॥४८॥ साम्प्रतमनादिसंसारसागरावर्तान्तर्गतानां सत्त्वानामन्योऽन्यं वैरसम्भवात् तत्क्षमणायाह - "खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे।। मित्ती मे सव्वभूएसु , वेरं मज्झ न केणई" ॥४९॥ 'क्षमयामि सर्वजीवान्' अनन्तभवेष्वप्यज्ञानमोहावृतेन या तेषां कृता पीडा तयोरपगमान्मर्षयामि, सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितम् , अत्र हेतुमाह –'मैत्री मे सर्वभूतेषु' 'वैरं मम न केनचित्' कोऽर्थः ? मोक्षलाभहेतुभिस्तान् सर्वान् स्वशक्त्या लम्भयामि, न च केषाञ्चिद् विघ्नकृतामपि विघाते वर्तेऽहमिति । वैरं हि भूरिभवपरम्परा-ऽनुयायि कमठ-मरुभूत्यादीनामिवेति ॥४९॥ साम्प्रतं प्रतिक्रमणाध्ययनमुपसंहरन्नवसानमङ्गलप्रदर्शनार्थमाह "एवमहं आलोइय, निंदिय गरहिय दुगंछिउं संमं । तिविहेण पडिक्कंतो, वंदामि जिणे चउव्वीसं" ॥५०॥ कण्ठ्या । नवरं–'दुगुंछिउंति जुगुप्सित्वा धिग्मां पापकारिणमित्यादिना, सम्यगिति च सर्वत्र योज्यम् , इत्येवमल्परुचिसत्त्वबोधनाय श्राद्धप्रतिक्रमणसूत्रसक्षेपार्थोऽत्र लिखितो. विस्तरार्थस्त । बहदवत्तितश्चर्णितश्चावसेयः । अत्र च प्रसङ्गतोऽन्यान्यपि शेषसूत्राणि व्याख्यायन्ते"आयरिअ उवज्झाए, सीसे साहम्मिए कुलगणे अ। जे मे केइ कसाया, सव्वे तिविहेण खामेमि" ॥१॥ आचार्य उपाध्याये शिष्ये साधर्मिके कुले गणे च ये मे केऽपि कषायाः कृताः सन्ति, तान् सर्वान् अहं त्रिविधेन मनोवाक्काययोगेन क्षमयामि ॥१॥ "सव्वस्स समणसंघस्स, भगवओ अंजलिं करिअ सीसे । सव्वं खमावइत्ता, खमामि सव्वस्स अहयं पि" ॥२॥ "सर्वस्य श्रमणसङ्घस्य भगवतः अञ्जलिं कृत्वा शीर्षे सर्वं क्षमयित्वा क्षाम्यामि सर्वस्य च अहमपि ॥२॥ १. "त्क्षाम' इति श्राद्धदिनकृत्ये प०१४३ ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500