Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 449
________________ ‘वंदित्तुसूत्र' विवरणम् – श्लो० ६५ ॥ ] [ ४०९ कण्ठ्या । नवरं –‘आलोचना' गुरुभ्यो निजदोषकथनम्, उपचारात् तत्कारणभूता प्रमादक्रियाप्यालोचना, 'पडिक्कमणकाले त्ति' आलोचनानिन्दागर्हाऽवसरे ॥४२॥ एवं प्रतिक्रामको दुष्कृतनिन्दादीन् विधाय विनयमूलधर्माराधनाय कायेनाभ्युत्थितः 'तस्स धम्मस्स केवलीपण्णत्तस्स त्ति' भणित्वा मङ्गलगर्भमिदमाह - "अब्भुट्ठिओ मि आराहणाइ, विरओ विराहणाए अ । तिविहेण पडिक्कंतो, वंदामि जिणे चउव्वीसं " ॥४३॥ 'तस्य' गुरुपार्श्वे प्रतिपन्नस्य 'धर्मस्य' श्रावकधर्मस्य 'केवलिप्रज्ञप्तस्य' 'अभ्युत्थितोऽस्म्याराधनाय' उद्यतोऽहं सम्यक् पालनार्थम्, 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः त्रिविधेनेत्यादि सुगमम् ॥४३॥ एवं भावजिनान्नत्वा सम्यक्त्वशुद्ध्यर्थं त्रिलोकगतस्थापनार्हद्वन्दनार्थमाह – " जावंति चेइयाइं०" ॥४४॥ कण्ठ्या । नवरं – 'इहसंतो त्ति' इहस्थितः ॥४४॥ साम्प्रतं सर्वसाधुवन्दनायाह - " जावंत के वि साहु, " भर० ॥४५॥ ‘यावन्तः केचित् साधवो' जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसङ्ख्या, जघन्यतस्तु *द्विकोटिसहस्रप्रमिताः, भरतैरावतमहाविदेहेषु, चशब्दात् संहरणादिनाऽकर्मभूम्यादिषु च, सर्वेभ्यस्तेभ्यः प्रणतस्त्रि* विधेनेत्यादि सुगमम् ॥४५॥ एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशंसन्नाह ‘“चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ वोलंतु मे दिअहा " ॥४६॥ ‘कण्ठ्या । नवरं –‘कथया' तन्नामोच्चारणतद्गुणोत्कीर्त्तनतच्चरितवर्णनादिकया वचनपद्धत्या, ‘वोलंतु त्ति' व्रजन्तु ||४६ || सम्प्रति मङ्गलपूर्वकं जन्मान्तरेऽपि समाधिबोध्याशंसामाह ** १. चिह्नद्वयमध्यवर्तिपाठः मु० मध्ये [ ] ईदृशे कोष्ठके C. प्रतौ पार्श्वभागे वर्तते ॥ २. °माशंसयन्नाह-इति श्राद्धदिनकृत्ये प० १४२ ॥ ३. पूर्विकां - इति श्राद्धदिनकृत्ये प० १४२ ।। D:\new/d-2.pm5\ 3rd proof

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500