Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 459
________________ पर्वादिकृत्यानि-श्लो० ६८॥] [४१९ "चाउद्दसट्ठमुट्ठिपुण्णमासीसु" [प्र.प./२४७ ] त्ति सूत्रप्रामाण्यात् , महानिशीथे, तु -ज्ञानपञ्चम्यपि पर्वत्वेन विश्रुता । “अट्ठमीचउद्दसीसुं नाणपंचमीसु उववासं न करेड़ पच्छित्तम्" [म.नि.] इत्यादिवचनात् । तथाऽन्यत्र च - "बीआ पंचमि अमि, एगारसि चउद्दसी पण तिहीउ । एआओ सुअतिहीओ, गोअमगणहारिणा भणिआ ॥१॥[ ] बीआ दुविहे धम्मे, पंचमि नाणेसु अट्ठकम्मे अ। एगारसि अंगाणं, चउद्दसी चउदपुव्वाणं" ॥२॥[ ] एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां सह षट्पर्वी च प्रतिपक्षं उत्कृष्टतः स्यात् । एषु च पर्वसु कृत्यानि यथा –पौषधकरणम् , प्रतिपर्व तत्करणाशक्तौ तु अष्टम्यादिषु नियमेन । यद् आगम: "सव्वेसु कालपव्वेसु , पसत्थो जिणमए हवइ जोगो। अट्ठमिचउद्दसीसु अ, नियमेण हविज्ज पोसहिओ' ॥१॥[ ] इति । यथाशक्तिग्रहणादष्टम्यादिष्वपि पौषधकरणाशक्तौ द्विष्प्रतिक्रमण-बहु-बहुतरसामायिककरण-बहुसंक्षेपदेशावकासिकव्रतस्वीकरणादि कार्यम् । पौषधविधिश्च पूर्वं दर्शित एव । तथा तेषु स्नानशीर्षादिशोधन-ग्रथन-वस्त्रादिधावन-रञ्जन-शकटहलादिखेटन-मूटकादिबन्धन-यन्त्रादिवाहन-दलन-खण्डन-पेषण-पत्र-पुष्पफलादित्रोटनसच्चित्तखटीवर्णिकादिमर्दन-धान्यादिलवन-लिम्पन-मृदादिखनन-कर्त्तन-गृहादिनिष्पादन-सच्चित्ताहारभक्षणादिसर्वारम्भवजन-विशेषतपोऽभ्युपगमन-विशेषतःस्नात्रपूजाचैत्यपरिपाटीकरण-सर्वसाधुनमस्करण-सुपात्रदान-ब्रह्मचर्यपालनादीनि धर्मानुष्ठानानि कार्याणि । यतः - "जइ सव्वेसु दिणेसुं , पालह किरिअं तओ हवइ लटुं । जं पुण तहा न सक्कह, तहा वि हु पालिज्ज पव्वदिणं" ॥१॥[] तथा- “नाहणचीवरधोअणमत्थयगुंथणमबंभचेरं च ।। खंडनपीसणलिप्पण, वज्जेअव्वाइं पव्वदिणे" ॥२॥[ ] आगमेऽपि पर्वतिथिपालनस्य शुभायुर्बन्धहेतुत्वादिना महाफलत्वं प्रतिपादितम् । यतः –“भयवं ! बीअपमुहासु पंचसु तिहीसु विहिअं धम्माणुढाणं किंफलं होइ ?, १. तुला-श्राद्धविधिवृत्तिः प० १५२ ॥ २. कण्डन श्राद्धदिनवृत्तिः गा० ११ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500