Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 419
________________ दैवसिकप्रतिक्रमणविधिः-श्लो० ६५॥] [३७९ इत्यादि सूत्रं न पठन्ति, 'नमोऽस्तु वर्द्धमानाय' इत्यादिस्थाने 'संसारदावानल' इत्यादि च पठन्ति, रात्रिकप्रतिक्रमणे तु विशाललोचनेत्यादिस्थाने । केचित् तु स्त्रीणां पूर्वाध्ययनेऽनधिकारित्वात् नमोऽस्तु वर्द्धमानेत्यादीनां च पूर्वान्तर्गतत्वेन सम्भाव्यमानत्वान्न पठन्तीत्याहुः । यच्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्तं 'नमो खमासमणाणं' इति गुरुनमस्कारः साधुश्राद्धादिभिर्भण्यते, तन्नृपाद्यालापेषु प्रतिवार्ताप्रान्तं जीवेत्यादिभणनवत् श्रीगुरुवच: प्रतीच्छादिरूपं सम्भाव्यते । स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः । तत उदारस्वरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वे सावधानमनसः कृताञ्जलयः शृण्वन्ति । स्तवनभणनानन्तरं च सर्वजिनस्तुतिरूपं 'वरकनक' इत्यादि पठित्वा चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते । । अत्र च देवगुरुवन्दनं नमोऽर्हत्सिद्धेत्यादेरारभ्य चतुःक्षमाश्रमणप्रदानं यावत् ज्ञेयम् , श्राद्धस्य तु 'अड्डाइज्जेसु' इत्यादि भणनावधि ज्ञेयम् । इदं च देवगुरुवन्दनं प्रतिक्रमणस्य प्रारम्भे अन्ते च कृतम् , 'आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्' इति न्यायात् सर्वत्राप्यवतरतीति । यथा शक्रस्तवस्यादावन्ते नमो इति भणनम् । ततोऽपि 'द्विर्बद्धं सुबद्धं भवति' इतिन्यायेन पूर्वं चारित्राद्याचारशुद्ध्यर्थं कृतेष्वपि कायोत्सर्गेषु पुनः प्राणातिपातविरमणाद्यतिचाररूपदैवसिकप्रायश्चित्तविशोधनार्थं चतुश्चतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गं कुरुते । अयं च कायोत्सर्गः सामाचारीवशेन कैश्चित् प्रतिक्रमणस्यादौ कैश्चित् त्वन्ते क्रियते । तदनु तथैव पारयित्वा चतुर्विंशतिस्तवं च मङ्गलार्थं पठित्वा क्षमाश्रमणद्वयपूर्वं मण्डल्यामुपविश्य सावधानमनसा स्वाध्यायं कुरुते मूलविधिना, पौरुषी यावत् सम्पूर्णा स्यात् । अत्राह पर: -ननु प्रतिक्रमणं पञ्चाचारविशुद्ध्यर्थं प्रागुक्तम् , अत्र तु ज्ञानदर्शनचारित्राचाराणामेव यथास्थानं शुद्धिरुक्ता, न च तपो-वीर्याचारयोः, तथा च प्रतिज्ञाहानिरितिचेत् ? मैवम् , एतच्छुद्धिर्ज्ञानाद्याचारानन्तरीयका इति प्रतिपादितैव । तथाहि -सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य श्राद्धस्यापि कृतान्यतरप्रत्याख्यानस्य तद्भवति । प्रातरपि षाण्मासिकप्रभृतिनमस्कारसहितान्तं प्रत्याख्यानं करोतीति स्फुटैव तपआचारशुद्धिः । यथाविधि यथाशक्ति च प्रतिक्रामतो वीर्याचारशुद्धिरपि प्रतीतैवेति । अविधिना च कृते प्रायश्चित्तम् , तथा हि-काले आवश्यकाकरणे चतुर्लघुः, मण्डल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्लघुः, निद्राप्रमादादिना प्रतिक्रमणे न मिलितः तत्रैकस्मि कायोत्सर्गे भिन्नमासः, द्वयोर्लघुमासः, त्रिषु गुरुमासः, तथा गुरुभिरपारिते कायोत्सर्गे स्वयं पारणे गुरुमासः, सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः, एवं वन्दनेष्वपि योज्यमिति व्यवहारसूत्रे । D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500