Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 444
________________ ४०४] [धर्मसंग्रहः-द्वितीयोऽधिकारः द्वावतिचारौ, अतः प्रोच्यते –'तह चेव त्ति' तथैव ‘भवत्यनाभोगे' अनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयम् ४, तथा 'पोषधविधिविपरीत:' पोषधविधेश्चतुर्विधस्यापि विपरीतोऽसम्यक्पालनरूपः, यथा -कृतपौषधस्य क्षुधाद्यार्त्तस्य पौषधे पूर्णे श्वः स्वार्थमाहारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायत: पञ्चमोऽतिचार: पाठान्तरं वा 'भोयणाभोय त्ति' भोजने -आहारे उपलक्षणत्वात् देहसत्कारादौ आभोग -उपयोगः, कदा पौषधः, पूर्णो भविष्यति ? येनाहं भोक्ष्ये इत्यादितत्परतेति पञ्चमः ५। एवं पञ्चभिरतिचारैः पौषधविधिविपरीते वैपरीत्ये सति 'तइए इत्यादि' प्राग्वत् ॥२९॥ साम्प्रतमतिथिसंविभागाख्यं तुर्यं शिक्षाव्रतम् , तत्र तिथिपर्वादिलौकिकव्यवहारत्यागाद् भोजनकालोपस्थायी श्रावकस्यातिथि: साधुरुच्यते, तस्य सङ्गतो -निर्दोषो न्यायागतानां कल्पनीयान्नपानादीनां देशकालश्रद्धासत्कारक्रमयुक्तः पश्चात्कर्मादिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः । अत्र चायं विधिः -कृतपौषधेन श्राद्धेन पारणकदिने साधुसद्भावेऽवश्यमतिथिसंविभागवतमासेव्य पारयितव्यम् , अन्यदा त्वनियमः, यदाह –"पढमं जईण दाऊण" [ उपदेशमाला २३८ ] इत्यादि। अत्रातिचारप्रतिक्रमणायाह"सच्चित्ते निक्खिवणे, पिहिणे ववएस मच्छरे चेव । कालाइक्कमदाणे, चउत्थे सिक्खावए निंदे" ॥३०॥ देयस्यान्नादेरदानबुद्ध्याऽतिक्रमादिभिरनाभोगेन वा 'सच्चित्ते' पृथ्व्यादौ निक्षिपतः सच्चित्तनिक्षेपणतेति प्रथमोऽतिचारः १ एवं सच्चित्तेन पिदधत: सच्चित्तपिधानता २ स्वकीयमपि परकीयमिदमित्यभिदधतः परव्यपदेशः ३ किमस्मादप्यहं न्यून इतिमात्सर्याद् ददतो मत्सरिता ४ साधुभिक्षावेलामतिक्रम्य निमन्त्रयमाणस्य कालातिक्रम: ५ शेषं प्राग्वत् ॥३०॥ साम्प्रतमत्र यद्रागादिना दत्तं तत्प्रतिक्रमणायाह - "सुहिएसु य दुहिएसु य, जा मे अस्संजएसु अणुकंपा। रागेण व दोसेण व, तं निंदे तं च गरिहामि" ॥३१॥ साधुष्विति विशेष्यं गम्यं संविभागवतप्रस्तावात् , ततः साधुषु कीदृक्षु ? सुष्ठु हितं -ज्ञानादित्रयं येषां ते सुहितास्तेषु , पुनः कीदृक्षु ? ‘दुःखितेषु' रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किंविशिष्टेषु ? न स्वयं -स्वच्छन्देन यता -उद्यता १. L.P.C. श्राद्धदिनकृत्ये च । उपभोगः-मु० ॥ २. L.P.C. श्राद्धदिनकृत्ये च प० १३४ । (न)-मुः ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500