________________
४०४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः द्वावतिचारौ, अतः प्रोच्यते –'तह चेव त्ति' तथैव ‘भवत्यनाभोगे' अनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयम् ४, तथा 'पोषधविधिविपरीत:' पोषधविधेश्चतुर्विधस्यापि विपरीतोऽसम्यक्पालनरूपः, यथा -कृतपौषधस्य क्षुधाद्यार्त्तस्य पौषधे पूर्णे श्वः स्वार्थमाहारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायत: पञ्चमोऽतिचार: पाठान्तरं वा 'भोयणाभोय त्ति' भोजने -आहारे उपलक्षणत्वात् देहसत्कारादौ आभोग -उपयोगः, कदा पौषधः, पूर्णो भविष्यति ? येनाहं भोक्ष्ये इत्यादितत्परतेति पञ्चमः ५। एवं पञ्चभिरतिचारैः पौषधविधिविपरीते वैपरीत्ये सति 'तइए इत्यादि' प्राग्वत् ॥२९॥
साम्प्रतमतिथिसंविभागाख्यं तुर्यं शिक्षाव्रतम् , तत्र तिथिपर्वादिलौकिकव्यवहारत्यागाद् भोजनकालोपस्थायी श्रावकस्यातिथि: साधुरुच्यते, तस्य सङ्गतो -निर्दोषो न्यायागतानां कल्पनीयान्नपानादीनां देशकालश्रद्धासत्कारक्रमयुक्तः पश्चात्कर्मादिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः । अत्र चायं विधिः -कृतपौषधेन श्राद्धेन पारणकदिने साधुसद्भावेऽवश्यमतिथिसंविभागवतमासेव्य पारयितव्यम् , अन्यदा त्वनियमः, यदाह –"पढमं जईण दाऊण" [ उपदेशमाला २३८ ] इत्यादि। अत्रातिचारप्रतिक्रमणायाह"सच्चित्ते निक्खिवणे, पिहिणे ववएस मच्छरे चेव ।
कालाइक्कमदाणे, चउत्थे सिक्खावए निंदे" ॥३०॥ देयस्यान्नादेरदानबुद्ध्याऽतिक्रमादिभिरनाभोगेन वा 'सच्चित्ते' पृथ्व्यादौ निक्षिपतः सच्चित्तनिक्षेपणतेति प्रथमोऽतिचारः १ एवं सच्चित्तेन पिदधत: सच्चित्तपिधानता २ स्वकीयमपि परकीयमिदमित्यभिदधतः परव्यपदेशः ३ किमस्मादप्यहं न्यून इतिमात्सर्याद् ददतो मत्सरिता ४ साधुभिक्षावेलामतिक्रम्य निमन्त्रयमाणस्य कालातिक्रम: ५ शेषं प्राग्वत् ॥३०॥ साम्प्रतमत्र यद्रागादिना दत्तं तत्प्रतिक्रमणायाह -
"सुहिएसु य दुहिएसु य, जा मे अस्संजएसु अणुकंपा।
रागेण व दोसेण व, तं निंदे तं च गरिहामि" ॥३१॥ साधुष्विति विशेष्यं गम्यं संविभागवतप्रस्तावात् , ततः साधुषु कीदृक्षु ? सुष्ठु हितं -ज्ञानादित्रयं येषां ते सुहितास्तेषु , पुनः कीदृक्षु ? ‘दुःखितेषु' रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किंविशिष्टेषु ? न स्वयं -स्वच्छन्देन यता -उद्यता
१. L.P.C. श्राद्धदिनकृत्ये च । उपभोगः-मु० ॥ २. L.P.C. श्राद्धदिनकृत्ये च प० १३४ । (न)-मुः ॥
D:\new/d-2.pm5\3rd proof