SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥] [४०३ "तिविहे दुप्पणिहाणे, अणवट्ठाणे तहा सइविहूणे । सामाइअ वितहकए, पढमे सिक्खावए निंदे" ॥२७॥ 'त्रिविधं' त्रिप्रकारं 'दुष्प्रणिधानं' कृतसामायिकस्य मनोवाक्कायानां दुष्प्रयुक्तता, तत्र मनसा गृहादिव्यापारचिन्तनम् १, वाचा सावद्यकर्कशादिभाषणम् २, कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निषदनादिविधानम् ३, 'अनवस्थानं' सामायिककालावधेरपूरणं यथाकथञ्चिद्वाऽनादृतस्य करणम् ४, तथा 'स्मृतिविहीनं' निद्रादिप्रमादात् शून्यतयाऽनुष्ठितम् ५, एतानाश्रित्य 'सामायिके' प्रथमे शिक्षाव्रते 'वितथाकृते' सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति ॥२७॥ अधुना देशावकाशिकं व्रतं -तच्च पूर्वं योजनशतादिना यावज्जीवं गृहीतदिग्व्रतस्य तथाभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं, सर्वव्रतसंक्षेपकरणरूपं वा । अस्यातिचारप्रतिक्रमणायाह - "आणवणे पेसवणे, सद्दे रूवे य पुग्गलक्खेवे । देसावगासियंमी, बीए सिक्खावए निंदे ॥२८॥ गृहादौ कृतदेशावकाशिकस्य गृहादेर्बहिस्तात् केनचित् किञ्चिद्वस्त्वानयतः आनयनप्रयोगः १ एवं प्रस्थापयतः प्रेष्यप्रयोगः २ गृहादेर्बहिःस्थस्य कस्यचित् काशितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपात: ३ एवं स्वरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्षमाणस्य रूपानुपात: ४ नियन्त्रितक्षेत्राद् बहिःस्थितस्य कस्यचित् लेष्ट्वादिक्षेपणेन स्वकार्यं स्मारयतः पुद्गलक्षेप: ५ 'देसावगासियंमीत्यादि' प्राग्वत् ॥२८॥ __अधुना पोषधोपवासः -तत्र पोषं पुष्टिं प्रक्रमाद् धर्मस्य धत्त इति पोषधः - अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः, तत्रोपवसनं पोषधोपवासः । तद्भेदास्तु पौषधव्रते उक्तास्ततोऽवसेयाः । अत्र चातिचारप्रतिक्रमणायाह - "संथारुच्चारविही, पमाय तह चेव भोयणाभोए । पोसहविहिविवरीए, तइए सिक्खावए निदे" ॥२९॥ 'संस्तारकः' कम्बलादिमय उपलक्षणत्वाच्छय्यापीठफलकादि च, 'उच्चार त्ति' उच्चारप्रश्रवणभूमयो द्वादश[द्वादश]विण्मूत्रस्थण्डिलानि, एषां विधौ प्रमादः, कोऽर्थः ? शय्यायां संस्तारके च चक्षुषा अप्रत्युपेक्षिते दुष्प्रत्युपेक्षिते वोपवेशनादि कुर्वतः प्रथमोऽतिचारः १ एवं रजोहरणादिना अप्रमार्जिते दुष्प्रमार्जिते च द्वितीयः २ एवमुच्चारादिभूमीनामपि १. स्वं रूपं-इति श्राद्धदिनकृत्ये प०१२० ॥२. द्वादश-L.P.C. नास्ति, श्राद्धदिनकृत्ये अस्ति ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy