Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३८८ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
‘साय’त्ति सायं – प्रदोषस्तत्र शतमुच्छ्वासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक् । ‘गोसद्धं ति' प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेषं स्पष्टम् । उच्छ्वासमानं चोपरिष्टाद् वक्ष्यति "पायसमा ऊसासा" [ आव० नि० ] इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानं यथा -
"चत्तारि दो दुवालस, वीसं चत्ता य हुंति उज्जोया ।
देसि राइअ पक्खिअ चाउम्मासे अ वरिसे अ ॥१॥ [ आव.नि./ १५३१] भावितार्था । अथ श्लोकमानं यथा -
-
"पणवीसमद्धतेरस, सिलोग पण्णत्तरिं च बोद्धव्वा ।
सयमेगं पणवीसं, बेबावण्णा य वारिसए ॥१॥ [ आव.नि./ १५३२]
स्पष्टैव, नवरं चतुर्भिरुच्छ्वासैः श्लोकः परिगृह्यते, एकस्मिश्चोद्योतकरे, षट् श्लोकास्ते चतुर्गुणाश्चतुर्विंशतिः एकश्च पादश्चतुर्गुण इत्येकः श्लोको, मिलिताः पञ्चविंशतिः श्लोका दैवसिके एवमग्रेऽपि भाव्यम् । इत्युक्ता नियतकायोत्सर्गवक्तव्यता । अथानियतस्य तमाह"गमणागमणविहारे, सुत्तंमि अ सुमिणदंसणे राओ I
1
नावाणइसंतरणे, इरिआवहिआपडिक्कमणं" ॥१॥ [ आव.नि./ १५३३ ]
गमनं –भिक्षादिनिमित्तम्, आगमनं ग्रामादेस्ततश्चात्रेर्यापथिकीं प्रतिक्रम्य पञ्चविंशत्युच्छ्वासमानः कायोत्सर्गः कार्यः । यतः -
" भत्ते पाणे सयणासणे अ अरहंतसमणसेज्जासुं ।
उच्चारे पासवणे, पणवीसं होंति उस्सासा" ॥१॥ [ आव.नि./ २३४]
अस्या अर्थः –भक्तपाननिमित्तमन्यग्रामादौ गमनम्, ततो यदि सद्य एव न वलते तदेर्यापथिकीप्रतिक्रमणम्, ततश्चागमनेऽपि, एवं शयनासननिमित्तमपि, शयनं - संस्तारको वसतिर्वा, आसनं –पीठकादि, अरहंतश (अर्हच्छ) य्या - चैत्यगृहम्, श्रमणशय्या - साधुवसतिः, तत्रापि गत्यागत्योः पूर्ववत्, तथोच्चारे प्रश्रवणे च व्युत्सृष्टे हस्तमात्रादागमनेऽपि प्रतिक्रमणम्, यदि च मात्रके व्युत्सृष्टं तदा परिष्ठापकः प्रतिक्रामति, ने तु स्वयम्, हस्तशताद् बहिर्गमने तु स्वयमपीति । एतेषु स्थानेषु पञ्चविंशतिरुच्छ्वासाः कायोत्सर्गमानम् । अथ मूलगाथायां विहारे त्ति – सूत्रपौरुषीनिमित्तं स्ववसतेरन्यत्र गमनम् । यतः -
१. स्वयमपि कर्तव्यमिति व्यवहारसूत्राभिप्रायः - इति अत्रैव भाषान्तरग्रन्थे टिप्पणे पृ० ६०३ टि० १३५ ।।
D:\new/d-2.pm5\ 3rd proof

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500