Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३९०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः कृष्णादिलेश्यापरिणाम इति द्वितीयः २, द्रव्यतो नोच्छ्रितो नोर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यानशुक्लध्याने इति तृतीयः ३, न द्रव्यतो नापि भावत उच्छ्रितो नोर्ध्वस्थानं कृष्णादिलेश्यापरिणामश्चेति चतुर्थः ४। एवं निषण्णशयितयोरपि चतुर्भङ्गी वाच्या । कायोत्सर्गस्य च सूत्रार्थ एकोनविंशतिर्दोषाश्च प्राग्व्याख्याता एव । कायोत्सर्गस्यापि फलं निर्जरैव । यदाहुः -
"काउस्सग्गे जह संठिअस्स भज्जंति अंगमंगाई।
इय भिदंति सुविहिया अट्टविहकम्मसंघायं" ॥[आव.नि./१५५१]
अथ प्रत्याख्यानम् , प्रति-प्रतिकूलतया आ-मर्यादया ख्यानं -प्रकथनं प्रत्याख्यानम् , तदपि पूर्वं व्याख्यातमेव । इति षडावश्यकक्रियालक्षणप्रतिक्रमणविधिः ।
इदं च प्रतिदिवसमुभयसन्ध्यमपि विधेयं श्राद्धेन अभ्यासाद्यर्थं च यथाभद्रकेणापि । अत्राह -नन्वप्रतिपन्नान्यतरव्रतस्य यथाभद्रकस्य तदतिचारासम्भवः, तदसम्भवे च तच्छुद्धिरूपं प्रतिक्रमणकरणमनुचितम् , तथा च तत्पाठोच्चारणमप्यसङ्गतमेव, अन्यथा महाव्रतातिचाराणामप्युच्चारणप्रसङ्गः, इति चेत् ? नैवम् , यथाभद्रकस्यापि मार्गावतारणार्थं दीक्षाविधानमिव प्रतिक्रमणकारणमपि युक्तमेव, अप्रतिपन्नान्यतरव्रतस्यापि च तस्य तदतिचारोच्चारणतोऽश्रद्धानादिविषयस्य प्रतिक्रमणस्यानुमतत्वाद् । यत उक्तम् -
"पडिसिद्धाणं करणे, किच्चाणमकरणे (अ) पडिक्कमणम् ।
असद्दहणे अ तहा, विवरीअपरूवणाए अ" ॥१॥[वंदित्तुसूत्रे/४८]
अत एव साधुरप्रतिपन्नास्वप्युपासकभिक्षुप्रतिमासु 'एगारसहिं उवासगपडिमाहिं बारसहिं भिक्खुपडिमाहिं' इत्येवं प्रतिक्रामन् भणति । ननु यद्येवं तदा साधुप्रतिक्रमणसूत्रेणैव प्रतिक्रामतु इति चेत् ? अनुमतमेतत् , को वा किमाह ? केवलं श्रावकप्रतिक्रमणसूत्रमणुव्रतादिविषयस्य प्रतिषिद्धाचरणस्य प्रपञ्चाभिधायकत्वेन सोपयोगतरमिति तेन ते प्रतिक्रामन्तीति पञ्चाशकवृत्तौ ।
न चावश्यकर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य न षड्विधमिति वक्तुं युक्तम् । "समणेण सावएण य, अवस्सकायव्वयं हवइ जम्हा ।
अंतो अहोनिसिस्स य, तम्हा आवस्सयं नाम" ॥१॥[अद्वा.गा./३, आव.मू./३] आगमे श्रावकं प्रत्यप्यावश्यकविधेयत्वस्य स्पष्टमेवोक्तत्वात् । न चात्र चैत्यवन्द
१. तुला-योगशास्त्रवृत्तिः २।१२९ प०७२५ ।।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500