Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 434
________________ ३९४] [धर्मसंग्रहः-द्वितीयोऽधिकारः दैवसिकम् , एवं रात्रिकपाक्षिकाद्यपि स्वस्वप्रतिक्रमणे, अशुभभावात् प्रातिकूल्येन क्रमामि निवर्तेऽहमित्यर्थः । उक्तं च - "स्वस्थानाद् यत् परस्थानं, प्रमादस्य वशात् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते" ॥१॥[ ] इति ।।३।। अधुना ज्ञानातिचारनिन्दनायाह - "जं बद्धमिदिएहि, चउहिं कसाएहि अप्पसत्थेहिं। रागेण व दोसेण व, तं निंदे तं च गरिहामि" ॥४॥ 'यद्बद्धं' यत् कृतमशुभं कर्म, प्रस्तावाद् विरतिनिबन्धनकाप्रशस्तेन्द्रियकषायवशगानां ज्ञानातिचारभूतम् । यदुक्तम् - "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ?" ॥१॥[ ] 'इन्द्रियैः' स्पर्शनेन्द्रियादिभिः स्पर्शादिविषयसम्बद्धसम्भूतसाधु-सोदासराजघ्राणप्रियकुमार-मथुरावणिक्-सुभद्राश्रेष्ठिन्यादिवत् तथा 'चतुर्भिः कषायैः' क्रोधादिभिरप्रशस्तैस्तीव्रौदयिकभावमुपगतैमण्डूकक्षपक-परशुराम-धनश्री-मम्मणादिवत् ‘रागेण' दृष्टिरागादिरूपेण गोविन्दवाचकोत्तराभ्यामिव, 'द्वेषेण' अप्रीतिरूपेण गोष्ठामाहिलादिवत् , वाशब्दौ विकल्पार्थो, 'तं निन्दे' इत्यादि प्राग्वत् ॥४॥ साम्प्रतं सम्यग्दर्शनस्य चक्षुर्दर्शनस्य च प्रतिक्रमणायाह - "आगमणे निग्गमणे, ठाणे चंकमणे अणाभोगे। अभिओगे अनिओगे, पडिक्कमे देसि सव्वं" ॥५॥ 'आगमने' 'मिथ्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेनासमन्ताद् गमने, 'निर्गमने' च, यद्बद्धमित्यनुवर्त्तते, तथा 'स्थाने' मिथ्यादृष्टिदेवकुलादावूर्ध्वस्थाने 'चङ्क्रमणे' च तत्रैवेतस्ततः परिष्वष्कणे, क्व सति ? इत्याह –'अनाभोगे' अनुपयोगे, 'अभियोगे' राजाभियोगादिके, 'नियोगे' श्रेष्ठिपदादिरूपे, शेषं पूर्ववत् ॥५॥ साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाह - "संका १ कंख २ विगिच्छा ३ पसंस ४ तह संथवो कुलिंगीसु । सम्मत्तस्सइयारे, पडि०" ॥६॥ १. क्रमामि प्रतिक्रमामि नि° L.P. || २. मण्डुकी प्रति श्राद्धदिनकृत्ये प० ७८ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500