________________
३९४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः दैवसिकम् , एवं रात्रिकपाक्षिकाद्यपि स्वस्वप्रतिक्रमणे, अशुभभावात् प्रातिकूल्येन क्रमामि निवर्तेऽहमित्यर्थः । उक्तं च -
"स्वस्थानाद् यत् परस्थानं, प्रमादस्य वशात् गतः ।
तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते" ॥१॥[ ] इति ।।३।। अधुना ज्ञानातिचारनिन्दनायाह -
"जं बद्धमिदिएहि, चउहिं कसाएहि अप्पसत्थेहिं।
रागेण व दोसेण व, तं निंदे तं च गरिहामि" ॥४॥ 'यद्बद्धं' यत् कृतमशुभं कर्म, प्रस्तावाद् विरतिनिबन्धनकाप्रशस्तेन्द्रियकषायवशगानां ज्ञानातिचारभूतम् । यदुक्तम् -
"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ?" ॥१॥[ ] 'इन्द्रियैः' स्पर्शनेन्द्रियादिभिः स्पर्शादिविषयसम्बद्धसम्भूतसाधु-सोदासराजघ्राणप्रियकुमार-मथुरावणिक्-सुभद्राश्रेष्ठिन्यादिवत् तथा 'चतुर्भिः कषायैः' क्रोधादिभिरप्रशस्तैस्तीव्रौदयिकभावमुपगतैमण्डूकक्षपक-परशुराम-धनश्री-मम्मणादिवत् ‘रागेण' दृष्टिरागादिरूपेण गोविन्दवाचकोत्तराभ्यामिव, 'द्वेषेण' अप्रीतिरूपेण गोष्ठामाहिलादिवत् , वाशब्दौ विकल्पार्थो, 'तं निन्दे' इत्यादि प्राग्वत् ॥४॥ साम्प्रतं सम्यग्दर्शनस्य चक्षुर्दर्शनस्य च प्रतिक्रमणायाह - "आगमणे निग्गमणे, ठाणे चंकमणे अणाभोगे।
अभिओगे अनिओगे, पडिक्कमे देसि सव्वं" ॥५॥ 'आगमने' 'मिथ्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेनासमन्ताद् गमने, 'निर्गमने' च, यद्बद्धमित्यनुवर्त्तते, तथा 'स्थाने' मिथ्यादृष्टिदेवकुलादावूर्ध्वस्थाने 'चङ्क्रमणे' च तत्रैवेतस्ततः परिष्वष्कणे, क्व सति ? इत्याह –'अनाभोगे' अनुपयोगे, 'अभियोगे' राजाभियोगादिके, 'नियोगे' श्रेष्ठिपदादिरूपे, शेषं पूर्ववत् ॥५॥ साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाह - "संका १ कंख २ विगिच्छा ३ पसंस ४ तह संथवो कुलिंगीसु । सम्मत्तस्सइयारे, पडि०" ॥६॥
१. क्रमामि प्रतिक्रमामि नि° L.P. || २. मण्डुकी प्रति श्राद्धदिनकृत्ये प० ७८ ॥
D:\new/d-2.pm5\3rd proof