________________
'वंदित्तुसूत्र' विवरणम् - श्लो० ६५ ॥ ]
" वंदित्तु सव्वसिद्धे, धम्मायरिए अ सव्वसाहू अ । इच्छामि पडिक्कमिउं, सावगधम्माइआरस्स" ॥१॥
‘वन्दित्वा' नत्वा, सर्वं वस्तु विदन्ति सर्वेभ्यो हिता वेति सार्वास्तीर्थकृतः, सिध्यन्ति स्म सर्वकर्म्मक्षयान्निष्ठितार्था भवन्ति स्मेति सिद्धाः, सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान्, तथा 'धर्माचार्यान्' श्रुतचारित्रधर्माचारसाधून् धर्मदातॄन् वा, चशब्दादुपाध्यायान् श्रुताद्यापकान् तथा 'सर्वसाधूंश्च' स्थविरकल्पिकादिभेदभिन्नान् मोक्षसाधकान् मुनीन्, चः समुच्चये एवं च विघ्नव्रातोपशान्तये कृतपञ्चनमस्कार इदमाह –‘इच्छामि' अभिलषामि, 'प्रतिक्रमितुं' निवर्तितुम्, कस्मात् ? इत्याह - ‘श्रावकधर्मातिचारात्’ जातावेकवचनम्, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाद्याचारपञ्चकस्य चतुर्विंशसतसङ्ख्यातिचारेभ्यः प्रतिक्रमितुमिच्छामीति गाथार्थः ॥१॥
सामान्येन सर्वव्रतातिचारप्रतिक्रमणार्थमाह
[ ३९३
"जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ ।
सुमो य बायरो वा, तं निंदे तं च गरिहामि” ॥२॥
'य' इति सामान्ये, ‘मे' मम सर्व ' व्रतातिचारः' अणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ख्यः, सञ्जात इति शेषः तथा 'ज्ञाने' ज्ञानाचारे कालविनयाद्यष्टप्रकारे वितथाचरणरूपः, तथा ‘दर्शने' सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण निःशङ्किताद्यष्टविधे च दर्शनाचारे अनासेवनाद्वारेण, तथा ‘चारित्रे' समितिगुप्तिलक्षणेऽनुपयोगरूपोऽतिचारः, चशब्दात् तपोवीर्याचारयोः संलेखनायां च, तत्र बाह्याभ्यन्तरभेदात् तपो द्वादशधा, वीर्यं मनोवाक्कायैस्त्रिधा, अतिचारता चानयोर्धर्मे स्वशक्तिगोपनात्, संलेखनायास्तु पञ्चातिचाराः, एवं चतुर्विंशत्यधिकशतसङ्ख्यातिचारमध्ये यः 'सूक्ष्मो वा' अनुपलक्ष्यः, 'बादरो वा' व्यक्तः, 'तं निन्दामि' मनसा पश्चात्तापेन, 'तं च गर्हे' गुरुसमक्षमिति ॥२॥
प्रायोऽन्यव्रतातिचारा अपि परिग्रहात् प्रादुर्भवन्त्यतः सामान्येन तत्प्रतिक्रमणायाह"दुविहे परिग्गहंमी, सावज्जे बहुविहे य आरंभे ।
कारावणे अकरणे, पडिक्कमे देसिअं सव्वं" ॥१॥
‘द्विविधे परिग्रहे' सचित्ताचित्तरूपे, 'सावद्ये' सपापे, 'बहुविधे' अनेकप्रकारे, 'आरम्भे' प्राणातिपातरूपे, ‘कारणे' अन्यैर्विधापने, 'कारणे' स्वयं निवर्त्तने, चशब्दात् क्वचिदनुमतावपि, यो मेऽतिचारस्तमित्यनुवर्त्तते, तं निरवशेषम्, देसिअं ति -आर्षत्वाद् १. 'ननुयोग' इति श्राद्धदिनकृत्ये ॥
D:\new/d-2.pm5\3rd proof