SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ३९२] [ धर्मसंग्रहः- द्वितीयोऽधिकारः "पंचमहव्वयजुत्तो, अनलसमाणपरिवज्जिअमई अ । संविग्गनिज्जरट्ठी, किइकम्मकरो हवइ साहू" ॥१॥ [ आ.नि./११९७ ] ति इत्यनया निर्युक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं तस्य वन्दनकम्, नैवम्, यतः साधुग्रहणं तत्र तदन्यवन्दनकोपलक्षणार्थं, यदि तु व्यवच्छेदार्थमभविष्यत् तदा साध्व्या अपि व्यवच्छेदोऽभविष्यत् न चासौ सङ्गतः, मातुर्विशेषेण वन्दनकनिषेधात्, तथा ‘पंचमहव्वयजुत्तो’ अनेन यथा महाव्रतग्रहणादणुव्रतयुक्तस्य व्यवच्छेदस्तथा पञ्चग्रहणाच्चतुर्महाव्रतयुक्तस्य मध्यतीर्थसाधोरपि व्यवच्छेदः स्याद्, न चैतदिष्टमित्यतो निर्विशेषं वन्दनकमपीति ३ | प्रतिक्रमणं तु सामान्यत ईर्यापथिकीप्रतिक्रमणभणनेनैव सिद्धम्, न च विचित्राभिग्रहवतां श्रावकाणां कथमेकेन प्रतिक्रमणसूत्रेण तदुपपद्यत इति वाच्यम्, प्रतिपन्नव्रतस्यातिचरणे प्रतिक्रमणं युक्तम्, अन्यस्य तु अश्रद्धानादिविषयस्यैव प्रतिक्रमणसमाधानस्य सुलभत्वात् ननु साधुप्रतिक्रमणाद् भिन्नं श्रावकप्रतिक्रमणसूत्रमयुक्तं, निर्युक्तिभाष्यचूर्ण्यादिभिरतन्त्रितत्वेनानार्षत्वात्, नैवम्, आवश्यकादिदशशास्त्रीव्यतिरेकेण निर्युक्तीनामभावेनौपपातिकाद्युपाङ्गानां च चूर्ण्यभावेनानार्षत्वप्रसङ्गात्, तत् प्रतिक्रमणमप्यस्ति तेषाम् ४। कायोत्सर्गस्तु ईर्यापथिकी प्रतिक्रमणात् पञ्चमप्रतिमाकरणात् सुभद्राश्राविकादिनिदर्शनाच्च श्रावकस्य विधेयतया प्रतिपत्तव्यो, यदि हि साधवोऽपि भङ्गभयात् साकारं कायोत्सर्गं प्रतिपद्यन्ते, तदा गृहिभिः सुतरामसौ तथा प्रतिपत्तव्यः, साध्वपेक्षया तेषामनैष्ठिकत्वादिति ५ । एवं प्रत्याख्यानमपि, ननु पारिष्ठापनिकादयश्चाकाराः साधूनामेव घटन्ते, ततो गृहिणामयुक्तमेव तद्, नैवं, यतो यथा गुर्वादयः पारिष्ठापनिकस्यानधिकारिणोऽपि यथा वा भगवतीयोगवाहिन गृहस्थसंसृष्टाद्यनधिकारिणोऽपि पारिष्ठापनिकाद्याकारोच्चारणेन प्रत्याख्यान्ति, 'अखण्डं सूत्रमुच्चारणीयम्' इतिन्यायाद्, एवं गृहस्था अपीति न दोषः ६ । तस्मात् साधुवच्छ्रावणापि श्रीसुधर्मस्वाम्यादिपरम्परायातविधिना प्रतिक्रमणं कार्यमित्यलं प्रसङ्गेन । अथ प्राक् यत् प्रतिज्ञातं –प्रतिक्रमणविवरणसूत्रं षडावश्यकप्रान्ते वक्ष्यत इति, तत्र च यतिप्रतिक्रमणसूत्रविवरणस्य यतिधर्माधिकारे वक्ष्यमाणत्वात् श्रावकप्रतिक्रमणस्येदानीमवसरः, तत्र कृतसामायिकेन प्रतिक्रमणमनुष्ठेयम्, तस्य च सर्वातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वान्मङ्गलादिविधानार्थं प्रथमगाथामाह - १. ॰माप L.P.C. ॥ २. L. P. । तु- मु० C. नास्ति ॥ ३. तुला - वन्दारुवृत्तिः प० ८६ तः, श्राद्धदिनकृत्य भा० २ प० ७५ तः ऋषभदेवकेशरीमलसंस्करणे ॥ D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy