SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणकरणावश्यकता - श्लो० ६५ ॥ ] [ ३९१ नाद्येवावश्यकं वक्तुमुचितम्, 'अज्झयणछक्कवग्गो' इत्यादितदेकार्थिकपदोपन्यासेन तस्य षड्विधत्वेन निश्चितत्वात्, 'अंतो अहोनिसिस्स य' इतिकालद्वयाभिधानाच्च, चैत्यवन्दनस्य च त्रैकालिकत्वेनोक्तत्वात् । अनुयोगद्वारेष्वपि - “जन्नं समणे वा समणी वा सावए वा साविआ वा तच्चित्ते तम्मणे तल्लेसे `तदज्झवसिए तदट्ठोवउत्ते तदप्पिकरणे तब्भावणभाविए उभओकालं आवस्सयं करेइ, से तं लोउत्तरिअं भावावस्सयं" [ अ.द्वा.सू. २८ ] इत्युक्तं, ततः श्रावकस्यापि आवश्यककरणं युक्तमेव । अथ ब्रूषे - षड्विधावश्यकमतिचारशुद्धिरूपं वर्त्तते । न च श्रावकाणामालोचनादिदशप्रकारशुद्धेर्मध्यादेकापि कल्पादिग्रन्थेषूपलभ्यते, न च तेषामतिचारा घटन्ते, संज्वलनोदय एव तेषामुक्तत्वाद्, अत्रोच्यते यद्यपि श्रावकाणां प्रकल्पादिषु शुद्धिर्न दृश्यते, तथाप्यसौ श्रावकजीतकल्पादेः सकाशादवश्यमभ्युपगन्तव्या, अन्यथोपासकदशासु यदुक्तं - किल भगवान् गौतममुनिरानन्दश्रावकं प्रत्यवादीत् । "तुम णं आणंदा ! एअस्स अट्ठस्स आलोआहि पडिक्कमाहि निंदाहि गरिहाहि अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहि" [ उ.द.१९/१४] इति कथं घटते ?, अत एव ज्ञापकादतिचारा अपि तेषां भवन्तीति सिद्धम्, यथा वा अतिचारा असंज्वलनोदयेऽपि भवन्ति तथा प्रागुक्तम् । किञ्च - " सव्वं ति भाणिऊणं, विरई खलु जस्स सव्विआ नत्थि । सो सव्वविरइवाई, चुक्कड़ देसं च सव्वं च ॥१॥[ आव.नि./८०० ] इत्यनया गाथया सामायिकसूत्रं सर्वशब्दवर्जं श्रावकस्योक्तम् १ | चतुर्विंशतिस्तवस्तु सम्यग्दर्शनशुद्धिनिमित्तत्वात्, सम्यग्दर्शनस्य च श्रावकस्यापि शोधनीयत्वात्, कर्तृविशेषस्य चानभिहितत्वाच्चोपपन्न एवास्य, किञ्च – ईर्यापथिकीप्रतिक्रमणस्य गमनागमनशब्देन भगवत्यां शङ्खोपाख्यानके पुष्कलिश्रावककृतत्वेन दर्शितत्वाद्, गमनागमनशब्दस्य चेर्यापथिकीपर्यायतया भगवत्यामेव तेषु तदाख्यानकेषु ओघनिर्युक्तिचूर्ण्यं च प्रसिद्धत्वाद् ईर्यापथिकीकायोत्सर्गे च चतुर्विंशतिस्तवस्य प्रायश्चिन्तनीयत्वाच्चासौ सिद्ध इति २ । वन्दनकमपि गुणवत्प्रतिपत्तिरूपत्वाद्, गुणवत्प्रतिपत्तेश्च श्रावकस्याप्यविरुद्धत्वात्, कृष्णादिभिश्च तस्य प्रवर्त्तितत्वात् । सङ्गतमेवास्य ननु १. तयज्झवसिए-इति अनुयोगद्वारे पाठ, योगशास्त्रवृत्तौ नास्ति एव पाठः ।। D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy