SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३९०] [धर्मसंग्रहः-द्वितीयोऽधिकारः कृष्णादिलेश्यापरिणाम इति द्वितीयः २, द्रव्यतो नोच्छ्रितो नोर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यानशुक्लध्याने इति तृतीयः ३, न द्रव्यतो नापि भावत उच्छ्रितो नोर्ध्वस्थानं कृष्णादिलेश्यापरिणामश्चेति चतुर्थः ४। एवं निषण्णशयितयोरपि चतुर्भङ्गी वाच्या । कायोत्सर्गस्य च सूत्रार्थ एकोनविंशतिर्दोषाश्च प्राग्व्याख्याता एव । कायोत्सर्गस्यापि फलं निर्जरैव । यदाहुः - "काउस्सग्गे जह संठिअस्स भज्जंति अंगमंगाई। इय भिदंति सुविहिया अट्टविहकम्मसंघायं" ॥[आव.नि./१५५१] अथ प्रत्याख्यानम् , प्रति-प्रतिकूलतया आ-मर्यादया ख्यानं -प्रकथनं प्रत्याख्यानम् , तदपि पूर्वं व्याख्यातमेव । इति षडावश्यकक्रियालक्षणप्रतिक्रमणविधिः । इदं च प्रतिदिवसमुभयसन्ध्यमपि विधेयं श्राद्धेन अभ्यासाद्यर्थं च यथाभद्रकेणापि । अत्राह -नन्वप्रतिपन्नान्यतरव्रतस्य यथाभद्रकस्य तदतिचारासम्भवः, तदसम्भवे च तच्छुद्धिरूपं प्रतिक्रमणकरणमनुचितम् , तथा च तत्पाठोच्चारणमप्यसङ्गतमेव, अन्यथा महाव्रतातिचाराणामप्युच्चारणप्रसङ्गः, इति चेत् ? नैवम् , यथाभद्रकस्यापि मार्गावतारणार्थं दीक्षाविधानमिव प्रतिक्रमणकारणमपि युक्तमेव, अप्रतिपन्नान्यतरव्रतस्यापि च तस्य तदतिचारोच्चारणतोऽश्रद्धानादिविषयस्य प्रतिक्रमणस्यानुमतत्वाद् । यत उक्तम् - "पडिसिद्धाणं करणे, किच्चाणमकरणे (अ) पडिक्कमणम् । असद्दहणे अ तहा, विवरीअपरूवणाए अ" ॥१॥[वंदित्तुसूत्रे/४८] अत एव साधुरप्रतिपन्नास्वप्युपासकभिक्षुप्रतिमासु 'एगारसहिं उवासगपडिमाहिं बारसहिं भिक्खुपडिमाहिं' इत्येवं प्रतिक्रामन् भणति । ननु यद्येवं तदा साधुप्रतिक्रमणसूत्रेणैव प्रतिक्रामतु इति चेत् ? अनुमतमेतत् , को वा किमाह ? केवलं श्रावकप्रतिक्रमणसूत्रमणुव्रतादिविषयस्य प्रतिषिद्धाचरणस्य प्रपञ्चाभिधायकत्वेन सोपयोगतरमिति तेन ते प्रतिक्रामन्तीति पञ्चाशकवृत्तौ । न चावश्यकर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य न षड्विधमिति वक्तुं युक्तम् । "समणेण सावएण य, अवस्सकायव्वयं हवइ जम्हा । अंतो अहोनिसिस्स य, तम्हा आवस्सयं नाम" ॥१॥[अद्वा.गा./३, आव.मू./३] आगमे श्रावकं प्रत्यप्यावश्यकविधेयत्वस्य स्पष्टमेवोक्तत्वात् । न चात्र चैत्यवन्द १. तुला-योगशास्त्रवृत्तिः २।१२९ प०७२५ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy