________________
कायोत्सर्गस्वरूपम्-श्लो० ६५ ॥ ]
"निअयालयाओ गमणं, अण्णत्थ उ सुत्तपोरुसिनिमित्तं ।
होइ विहारो इत्थ वि, पणवीसं हुंति उस्सग्गा" ॥१॥ [ आव. भा. प्र. / २३४] सूत्रे च - उद्देशसमुद्देशयोः सप्तविंशतिः, अनुज्ञापनायां च । यतः - "उद्देससमुद्देसे, सत्तावीसं अणुण्णवणयाए ।
अट्ठेव य ऊसासा, पट्ठवणपडिक्कमणमाई" ॥१॥ [ आव.नि./१५३४ ] उत्तरार्धव्याख्या -"पट्ठविओ कज्जनिमित्तं जड़ खलइ, अट्ठस्सास उस्सग्गं करिअ गच्छइ, बितिअवारं जड़ तो सोलसुस्सासं, तइअवारं जड़ तो न गच्छइ, अण्णो पट्ठविज्जइ, अवस्सकज्जे वा देवे वंदिअ पुरओ साहुं ठवेत्ता अण्णेण समं गच्छति । कालपडिक्कमणे वि अड्डुस्सासा, आदिसद्दाउ कालगिण्हणपट्टवणे अ गोअरचरिआए अक्खंधपरिट्ट अट्ठ चेव, केसिंचि परिअट्टणे पणवीसा" [ आव.नि. वृत्तौ ] ।
रात्रौ स्वप्नदर्शने –प्राणवधाद्यासेवने शतोच्छ्वासाः, मैथुनासेवने चाष्टतोच्छ्वासा इति भावितमेव । तथा नौनदीसन्तारे पञ्चविंशतिरुच्छ्वासाः । यतः -
—
'नावाए उत्तरिडं, वहमाई तह नई च एमेव ।
संतारेण चलेण व, गंतुं पणवीसमुस्सासा" ॥१॥ [ आव.नि./ १५३८ ] उच्छ्वासमानं चेत्थं
'पायसमा उस्सासा, कालपमाणेण हुंति णायव्वा ।
एवं कालपमाणं, उस्सग्गे होइ णायव्वं " ॥१॥ [ आव.नि./१५३९ ]
पादः श्लोकपादः । कायोत्सर्गविधिस्त्वेवम् –
44
44
-
[ ३८९
"पुव्वं ठंति अ गुरुणो, गुरुणा उस्सारिअंमि पारिंति ।
ठायंति उ सविसेसं, तरुणा अण्णोण्णचरिआ उ ॥ १ ॥ [ आव.नि./ १५४४]
चउरंगुलमुहपोत्ती, उज्जुए डब्बहत्थरयहरणं ।
वोसट्टचत्तदेहो, काउस्सग्गं करेज्जाहि" ॥२॥ [ आव.नि./ १५४५ ] चउरंगुलं ति –चत्वार्यङ्गुलानि पादयोरन्तरं कार्यं, मुखपोतिका च उज्जुए त्ति - दक्षिणहस्ते ग्राह्या, शेष सुगमम् । स च कायोत्सर्गः उच्छ्रित १ निषण्ण २ शयित ३ भेदेन त्रिधा, एकैकश्चतुर्द्धा - उच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावत उच्छ्रितो धर्मशुक्लध्यान इति प्रथमः १, तथा द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः
१. वरिआ - L. P. C. I
D:\new/d-2.pm5\ 3rd proof
-