Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४००]
[धर्मसंग्रहः-द्वितीयोऽधिकारः उपभोगपरिभोगभेदात् , तत्र उप इति सकृत् भोग-आहारमाल्यादेरासेवनमुपभोगः, परीत्यसकृद्भोगो –भवनाङ्गनादीनामासेवनं परिभोगः । तत्र गाथामाह -
"मज्जमि य मंसंमि य, पुप्फे य फले य गंधमल्ले य। ___ उवभोगपरिभोगे, बीयंमि गुणव्वए निदे॥२०॥ श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाऽऽहारिणा भाव्यम् , असति सच्चित्तपरिहारिणा, तदसति बहुसावद्यमद्यादीन् वर्जयित्वा प्रत्येकमिश्रादीनां कृतप्रमाणेन भवितव्यम् , तत्र मद्यं -मदिरा, मांसं -पिशितम् , चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च ग्रहः, तानि च प्रागुक्तानि पञ्चोदुम्बर्यादीनि, पुष्पाणि-करीरमघुकादिकुसुमानि, चशब्दात् त्रससंसक्तपत्रादिपरिग्रहः, फलानि -जम्बूबील्वादीनि, एषु च मद्यादिषु राजव्यापारादौ वर्तमानेन यत् किञ्चित् क्रापणादि कृतं तस्मिन् , एतैरन्तर्भोगः सूचितः, बहिस्त्वयं –'गन्धमल्ले त्ति' गन्धाः –वासाः, माल्यानि –पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः, तस्मिन्नुक्तरूपे, 'उपभोगपरिभोगे' 'भीमो भीमसेन' इति न्यायादुपभोगपरिभोगपरिमाणाख्ये 'द्वितीये गुणव्रते' अनाभोगादिना यदतिक्रान्तम् , तन्निन्दामि ॥२०॥ अत्र भोगतोऽतिचारप्रतिक्रमणायाह - "सच्चित्ते १ पडिबद्धे ३, अप्पोलदुप्पोलिए य आहारे।
तुच्छोसहिभक्खणया, पडि०" ॥२१॥ कृतसच्चित्तप्रत्याख्यानस्य कृततत्परिमाणस्य वा सचित्तमतिरिक्तमनाभोगादिनाऽभ्यवहरतः सच्चित्ताऽऽहारोऽतिचार: १ एवं वृक्षस्थं गुन्दादि राजादनादि वा सास्थिकफलं मुखे प्रक्षिपतः सच्चित्तप्रतिबद्धाहार: २ एवमपक्वस्याग्निनाऽसंस्कृतस्यापरिणतकणिकादेः पिष्टस्य भक्षणमपक्वौषधिभक्षणता ३ एवं दुष्पक्वस्य पृथुकादेर्दुष्पक्वौषधिभक्षणता ४ तुच्छा अतृप्तिहेतुत्वादसारा ओषधिः -कोमलमुद्गशिम्बादिका तां भक्षयतस्तुच्छौषधि-भक्षणता ५। एतद्विषये ‘पडिक्कमे' इत्यादि प्राग्वत् ।।२१।।
अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकर्मादीनि पञ्चदश कर्मादानानि तीव्रकर्मोपादानानि श्रावकेण ज्ञेयानि, न तु समाचरणीयानि, अतस्तेषु यदनाभोगादिनाऽऽचरितं तत्प्रतिक्रमणाय गाथाद्वयमाह -
१. C. श्राद्धदिनकृत्ये 'क्राय L. मु० ॥ २. L.P. | गन्धा-मु० C. ॥ ३. यं च आ० इति श्राद्धदिनकृत्ये प०१०७॥ ४. पादाननिदानानि-इति श्राद्धदिनकृत्ये प० १७ ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500