SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४००] [धर्मसंग्रहः-द्वितीयोऽधिकारः उपभोगपरिभोगभेदात् , तत्र उप इति सकृत् भोग-आहारमाल्यादेरासेवनमुपभोगः, परीत्यसकृद्भोगो –भवनाङ्गनादीनामासेवनं परिभोगः । तत्र गाथामाह - "मज्जमि य मंसंमि य, पुप्फे य फले य गंधमल्ले य। ___ उवभोगपरिभोगे, बीयंमि गुणव्वए निदे॥२०॥ श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाऽऽहारिणा भाव्यम् , असति सच्चित्तपरिहारिणा, तदसति बहुसावद्यमद्यादीन् वर्जयित्वा प्रत्येकमिश्रादीनां कृतप्रमाणेन भवितव्यम् , तत्र मद्यं -मदिरा, मांसं -पिशितम् , चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च ग्रहः, तानि च प्रागुक्तानि पञ्चोदुम्बर्यादीनि, पुष्पाणि-करीरमघुकादिकुसुमानि, चशब्दात् त्रससंसक्तपत्रादिपरिग्रहः, फलानि -जम्बूबील्वादीनि, एषु च मद्यादिषु राजव्यापारादौ वर्तमानेन यत् किञ्चित् क्रापणादि कृतं तस्मिन् , एतैरन्तर्भोगः सूचितः, बहिस्त्वयं –'गन्धमल्ले त्ति' गन्धाः –वासाः, माल्यानि –पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः, तस्मिन्नुक्तरूपे, 'उपभोगपरिभोगे' 'भीमो भीमसेन' इति न्यायादुपभोगपरिभोगपरिमाणाख्ये 'द्वितीये गुणव्रते' अनाभोगादिना यदतिक्रान्तम् , तन्निन्दामि ॥२०॥ अत्र भोगतोऽतिचारप्रतिक्रमणायाह - "सच्चित्ते १ पडिबद्धे ३, अप्पोलदुप्पोलिए य आहारे। तुच्छोसहिभक्खणया, पडि०" ॥२१॥ कृतसच्चित्तप्रत्याख्यानस्य कृततत्परिमाणस्य वा सचित्तमतिरिक्तमनाभोगादिनाऽभ्यवहरतः सच्चित्ताऽऽहारोऽतिचार: १ एवं वृक्षस्थं गुन्दादि राजादनादि वा सास्थिकफलं मुखे प्रक्षिपतः सच्चित्तप्रतिबद्धाहार: २ एवमपक्वस्याग्निनाऽसंस्कृतस्यापरिणतकणिकादेः पिष्टस्य भक्षणमपक्वौषधिभक्षणता ३ एवं दुष्पक्वस्य पृथुकादेर्दुष्पक्वौषधिभक्षणता ४ तुच्छा अतृप्तिहेतुत्वादसारा ओषधिः -कोमलमुद्गशिम्बादिका तां भक्षयतस्तुच्छौषधि-भक्षणता ५। एतद्विषये ‘पडिक्कमे' इत्यादि प्राग्वत् ।।२१।। अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकर्मादीनि पञ्चदश कर्मादानानि तीव्रकर्मोपादानानि श्रावकेण ज्ञेयानि, न तु समाचरणीयानि, अतस्तेषु यदनाभोगादिनाऽऽचरितं तत्प्रतिक्रमणाय गाथाद्वयमाह - १. C. श्राद्धदिनकृत्ये 'क्राय L. मु० ॥ २. L.P. | गन्धा-मु० C. ॥ ३. यं च आ० इति श्राद्धदिनकृत्ये प०१०७॥ ४. पादाननिदानानि-इति श्राद्धदिनकृत्ये प० १७ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy