SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥] [३९९ _ 'धनं' गणिमादि चतुर्द्धा, तत्र गणिमं -पूगफलादि, धरिमं -गुडादि, मेयं -घृतादि, परिच्छेद्यं -माणिक्यादि, 'धान्यं' व्रीह्यादि चतुर्विंशतिधा, एतयोरतिक्रमोऽतिचारः, तत्रधनधान्यस्य प्रमाणप्राप्तस्याधमर्णादिभ्योऽधिकलाभे समुपस्थिते यावताऽग्रेतनं विक्रीणीते तावत् तद्गृह एव तत्स्थापयतः, सत्यङ्कारेण वा स्वीकुर्वतः, स्थूलमूटकादिबन्धनेन वा धनधन्यातिक्रमरूपः प्रथमोऽतिचारः 'क्षेत्रं' सेतुकेतूभयात्मकं 'वास्तु'खातोच्छ्रितोभयात्मकं तयोरधिकसम्भवे व्यादिसंयोगजनितोऽतिचार: २, 'रूप्यं' रजतं 'सुवर्णं' कनकं, एतयोः पत्न्यादिभ्यः प्रदानेन ३, 'कुपितं' स्थालकच्चोलादि, तस्य स्थूलत्वादिविधानेन ४, "द्विपदं' गन्त्रीदास्यादि 'चतुष्पदं' गवाश्वादि, तत्र द्विपदचतुष्पदां गर्भागणनेन ५, शेषं प्राग्वत् ॥१९॥ साम्प्रतं त्रीणि गुणव्रतानि, तत्राद्यप्रतिक्रमणायाह - "गमणस्स य परिमाणे, दिसासु उडे अहे अतिरिअं च । वुड्डिसइअंतरद्धा, पढमंमि गुणव्वए निदे" ॥१९॥ गमनस्य [च] परिमाणे' गतेरियत्ताकरणे, चशब्दाद् अतिक्रान्तम् , क्व विषये ? 'दिक्षु तदेवाह -उड्डे ति' उर्ध्वं योजनद्विती(त)यादिना गृहीतप्रमाणस्यानाभोगादिनाऽधिकगमनमूर्ध्वदिक्प्रमाणातिक्रमरूपः प्रथमोऽतिचारः १ एवमधस्तिर्यग्दिशोश्चातिचारद्वयं वाच्यम् ३ 'वुड्ढि त्ति' क्षेत्रवृद्धिः, कोऽर्थः ? सर्वासु दिक्षु योजनशतादिना गृहीतप्राणस्यान्यतरस्यां दिशि योजनशतादेः परतः कायोत्पत्तावन्यादिक्सम्बन्धीनि कतिचिद्योजनानि जिगमिषितायां दिशि वर्द्धयतो दिग्द्वयमीलने त्वङ्गीकृतप्रमाणस्यानतिक्रमाद् भङ्गाभङ्गलक्षणक्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४ 'सइअंतरद्ध त्ति' स्मृत्यन्त - स्मृतेभ्रंश इत्यर्थः यथा पूर्वस्यां दिशि कृतयोजनशतप्रमाण्यस्य गमनकाले च शतं पञ्चाशद्वा कृतमिति सन्देहे व्यक्तमस्मरतः पञ्चाशत उपरि गच्छतः पञ्चमोऽतिचारः, शतात् परतो भङ्ग एव ५, तदेवं प्रथमे नियमितकतिपयभूभागं मुक्त्वा चतुर्दशरज्जुप्रमाणलोकगतजन्तुजातयातनारक्षणरूपाय गुणाय व्रतं तस्मिन् यदतिचरितमित्यादि प्राग्वत् ॥१९॥ साम्प्रतं द्वितीयं गुणव्रतम् , तच्च द्विधा –भोगतः कर्मतश्च, भोगोऽपि द्विधा - १. यावन्नाऽग्रे० इति श्राद्धदिनकृत्ये प० ९८ ॥ २. च-L.P.C. नास्ति ॥ ३. द्वितया L.P.C. I 'द्वितीया इति श्राद्धदिनकृत्ये प० १०६ ॥ ४. किं शतं-इति श्राद्धदिनकृत्ये प० १०२ ।। ५. 'नाया र इति श्राद्धदिनकृत्ये प० १०३ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy