SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३९८] [धर्मसंग्रहः-द्वितीयोऽधिकारः तुर्यव्रतमाह - "चउत्थे अणुव्वयंमि, निच्चं परदारगमणविरईओ। आयरियमप्पसत्थे इत्थ०" ॥१५॥ 'चतुर्थे अणुव्रते' नित्यं सदा, परे-आत्मव्यतिरिक्ताः तेषां दाराः -परिणीतसंगृहीतभेदभिन्नानि कलत्राणि तेषु गमनम् -आसेवनं तस्य विरतेरित्यादि प्राग्वत् ॥१५॥ अस्यातिचारप्रतिक्रमणायाह - "अपरिग्गहिया इत्तर, अणंग विवाह तिव्वअणुरागे । चउत्थ वयस्सइयारे, पडि०" ॥१६॥[] 'अपरिगृहीता' विधवा तस्यां गमनमपरिगृहीतागमनम् १ 'इतर त्ति' इत्वरमल्पकालं भाटीप्रदानतः केनचित् स्ववशीकृता वेश्या तस्यां गमनं इत्वरपरिगृहीतागमनम् २ अणंग त्ति' अनङ्गः-कामस्तत्प्रधाना क्रीडा -अधरदशनालिङ्गनाद्या तां परदारेषु कुर्वतोऽनङ्गक्रीडा, वात्स्यायनायुक्तचतुरशीतिकरणासेवनं वा 'विवाह त्ति' परकीयापत्यानां स्नेहादिना विवाहस्य करणं परविवाहकरणम् , स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्य: ४ 'तिव्वअणुरागं त्ति' कामभोगतीव्रानुरागः, कामेषु -शब्दादिषु , भोगेषु –रसादिषु , तीव्रानुरागः -अत्यन्तं तदध्यवसाय: ५, स्वदारसन्तोषिणश्च त्रय एवान्त्या अतिचाराः, आद्यौ तु भङ्गावेव, स्त्रिया अपि तथैव, यद्वाऽतिक्रमादिभिरतिचारता अवसेया, एतानाश्रित्य यद्वद्धमित्यादि प्राग्वत् ।।१६।। पञ्चमाणुव्रतमाह - "इत्तो अणुव्वए पंचमंमि आयरियमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थ०" ॥१७॥ 'इतः' तुर्यव्रतानन्तरं, धनधान्यादिनवविधपरिग्रहपरिमाणलक्षणे ‘पञ्चमे अणुव्रते' यदाचरितमप्रशस्ते भावे सति, क्व विषये ? 'परिमाणपरिच्छेदे' परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घने, अत्रेत्यादि प्राग्वत् ॥१७॥ अस्यातिचारप्रतिक्रमणायाह - "धणधन्नखित्तवत्थु , रुप्पसुवण्णे य कुवियपरिमाणे । दुपए चउप्पयंमी, पडि०" ॥१८॥[ ] १. L.P.C. I रागो त्ति-मु० ॥ २. इतोऽग्रे C. "उक्तं च-परदारवज्जिणो पंच दु तिन्नि उ सदारसंतुटे । इत्थिइ तिन्नि पंच व नवविगप्पेहिं नायव्वं ति" इति C. प्रतौ मूलपाठ: अधिकः ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy