________________
‘वंदित्तुसूत्र' विवरणम् – श्लो० ६५ ॥ ]
"इंगाली वणसाडी, भाडी फोडी सुवज्जए कम्मं । वाणिज्जं चेव य दंतलक्खरसकेसविसविसयं ॥२२॥ एवं खु जंतपीलणकम्मं निल्लंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा" ॥२३॥ कर्मशब्दः पूर्वार्द्धे प्रत्येकं योज्यः, तेनाङ्गारकर्म, वनकर्म, शकटकर्म, भाटककर्म, स्फोटककर्म चेति पञ्च कर्माणि तत्राङ्गारकर्माङ्गारकरणम्, एवमन्यदपि वह्निसमारम्भेण यज्जीवनं तदङ्गारजीविका १ एवं वनकर्मादीन्यपि वाच्यानि, उत्तरार्द्धेन पञ्च वाणिज्यान्याह ‘वाणिज्जमित्यादि' विषयशब्दः प्रत्येकं योज्यस्ततो दन्तविषयं वाणिज्यं दन्तवाणिज्यम् एवं लाक्षादिष्वपि, तत्राकरे दन्तिदन्तादित्रसाङ्गग्रहणं दन्तवाणिज्यम्, एवं लाक्षादिविक्रयो लाक्षावाणिज्यम्, मधुघृतादिविक्रयो रसवाणिज्यम्, गोमनुष्यादिविक्रयः केशवाणिज्यम्, विषशस्त्रादिविषयो विषवाणिज्यम्, एतत् पञ्चविधं वाणिज्यं पूर्वोक्तं च पञ्चप्रकारं कर्म श्रावको वर्ज्जयेदिति सण्टङ्कः । 'जंतपीलण त्ति' यन्त्रे - उलूखलादौ पीडनं - धान्यखण्डनादि तेन कर्म-जीविका यन्त्रपीडनकर्म 'निल्लंछण त्ति' नितरां लाञ्छनम् - अङ्गावयवच्छेदस्तेन कर्म - जीविका निर्लाञ्छनकर्म, 'दवदाण त्ति' अरण्येऽग्निप्रज्वालनं 'सरदह इत्यादि ' सरोद्रहतटाकशोषः-सारणीकर्षणेन ततो जलनिष्कासनमित्यर्थः, 'असईपोसं ति' वृत्त्यर्थं दास्यादिदुःशीलजन्तुपोषणं लिङ्गमतन्त्रं, सूत्रे च एवंखुशब्दौ गाथापर्यन्ते सम्बध्येते, ततश्चेवम्प्रकाराणि खरकर्माणि गुप्तिपालादीनि च खु निश्चयेन, सुश्रावको वर्जयेदिति
॥२२-२३॥
साम्प्रतमनर्थदण्डाख्यं तृतीयं गुणव्रतम्, तत्रार्थो - देहस्वजनादीनां कार्यं तदभावोऽनर्थः, ततः प्राणी निष्प्रयोजनं पुण्यधनापहारेण दण्ड्यते - पापकर्मणा विलुप्यते येन सोऽपध्यानाचरितादिकश्चतुर्द्धाऽनर्थदण्डः, तस्य मुहूर्त्तादिकालावधिना निषेधोऽनर्थदण्डव्रतम् । तत्र चापध्यानाचरितपापोपदेशौ व्रताधिकारस्थव्याख्यानादेवावसेयौ, हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात् साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह
44
'सत्थग्गिमुसलजंतगतणकट्ठे मंतमूलभेसज्जे । दिन्ने दवाविए वा, पडि० ॥२४॥
-
[ ४०१
D:\new/d-2.pm5\ 3rd proof
-
ण्हाणुव्वट्टणवण्णगविलेवणे सद्दरूवरसगंधे । वत्थासणआभरणे, पडि० " ॥ २५ ॥
‘शस्त्राग्निमुशलानि’ प्रतीतानि, 'यन्त्रकं' गन्त्र्यादि, 'तृणं' महारज्जुकरणादिहेतुर्दर्भादि