Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३९६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः अधुना प्रथमाह - "पढमे अणुव्वयंमी, थूलगपाणाइवायविरईओ।
आयरियमप्पसत्थे इत्थप्पमायप्पसंगेणं" ॥९॥ 'प्रथमे' सर्वव्रतानां सारत्वादादिमे, 'अणुव्रते' अनन्तरोक्तस्वरूपे, स्थूलको –बायैरुपलक्ष्यत्वाद् बादरो गत्यागत्यादिव्यक्तलिङ्गद्वित्रिचतुष्पञ्चेन्द्रियजीवसम्बन्धिनां प्राणानाम् - इन्द्रियादीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिः -निवृत्तिस्तस्याः सकाशादतिचरितमतिक्रान्तं, एतच्च सर्वविरतिसङ्क्रमेऽपि स्याद् , न च तत् प्रतिक्रमणार्हमत आह - 'अप्रशस्ते' क्रोधादिनौदयिकभावे सति 'इत्थं'ति अत्रैव प्राणातिपाते, 'प्रमादप्रसङ्गेन' प्रमादो मद्यादि पञ्चधा, तत्र प्रसञ्जनं -प्रकर्षण प्रवर्त्तनं प्रसङ्गस्तेन, 'एकग्रहणे तज्जातीयग्रहणाद्' आकुट्ट्याद्यैरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणवधबन्धादिकमसाध्वनुष्ठितमिति ॥९॥ तदेवाह - "वह १ बंध २ छविच्छेए ३, अइभारे ४ भत्तपाणवोच्छेए ५ ।
पढमवयस्सइयारे पडिक्कमे देसिअं सव्वं" ॥१०॥ 'वधो' द्विपदादीनां निर्दयताडनम् , 'बन्धो' रज्ज्वादिभि संयमनम् , 'छविच्छेदः' कर्णादिच्छेदनं 'अतिभारः' शक्त्यनपेक्षं गुरुभारारोपणं 'भक्तपानव्यच्छेदो' अन्नपाननिरोधः, सर्वत्र क्रोधादिति गम्यते, एतांश्च प्रथमव्रतातिचारानाश्रित्य यद्वद्धम् , शेषं प्राग्वत् । वधादीनामतिचारता च प्रागतिचाराधिकारे भावितैव, अनाभोगातिक्रमादिना वा सर्वत्रातिचारताऽवसेया ॥९॥ द्वितीयव्रतमाह -
"बीए अणुव्वयंमी, परिथूलगअलियवयणविरईओ।
आयरियमप्पसत्थे, इत्थ०" ॥११॥ "द्वितीये अणुव्रते' परीत्यतिशयेन स्थूलकम् -अकीर्त्यादिहेतुरलीकवचनं कन्यालीकादि पञ्चधा, तत्र द्वेषादिभिरविषकन्यां विषकन्यामित्यादि वदतः कन्यालीकम् १, एवमल्पक्षीरां बहुक्षीरां गामित्यादि वदतो गवालीकम् २, परसत्कां भूमिमात्मसत्कां वदतो भूम्यलीकम् ३, उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदापदालीकानाम् , न्यासस्य –धनधान्यादिस्थापनिकाया हरणम् -अपलापो न्यासापहार: ४, अत्र पूर्वत्र चादत्तादानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदानात् कूटसाक्षिकत्वम् ५, अनयोश्च द्विपदाद्यलीकान्तर्भावेऽपिलोकेऽतिगर्हितत्वात्
D:\new/d-2.pm5|3rd proof

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500