SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३९६] [धर्मसंग्रहः-द्वितीयोऽधिकारः अधुना प्रथमाह - "पढमे अणुव्वयंमी, थूलगपाणाइवायविरईओ। आयरियमप्पसत्थे इत्थप्पमायप्पसंगेणं" ॥९॥ 'प्रथमे' सर्वव्रतानां सारत्वादादिमे, 'अणुव्रते' अनन्तरोक्तस्वरूपे, स्थूलको –बायैरुपलक्ष्यत्वाद् बादरो गत्यागत्यादिव्यक्तलिङ्गद्वित्रिचतुष्पञ्चेन्द्रियजीवसम्बन्धिनां प्राणानाम् - इन्द्रियादीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिः -निवृत्तिस्तस्याः सकाशादतिचरितमतिक्रान्तं, एतच्च सर्वविरतिसङ्क्रमेऽपि स्याद् , न च तत् प्रतिक्रमणार्हमत आह - 'अप्रशस्ते' क्रोधादिनौदयिकभावे सति 'इत्थं'ति अत्रैव प्राणातिपाते, 'प्रमादप्रसङ्गेन' प्रमादो मद्यादि पञ्चधा, तत्र प्रसञ्जनं -प्रकर्षण प्रवर्त्तनं प्रसङ्गस्तेन, 'एकग्रहणे तज्जातीयग्रहणाद्' आकुट्ट्याद्यैरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणवधबन्धादिकमसाध्वनुष्ठितमिति ॥९॥ तदेवाह - "वह १ बंध २ छविच्छेए ३, अइभारे ४ भत्तपाणवोच्छेए ५ । पढमवयस्सइयारे पडिक्कमे देसिअं सव्वं" ॥१०॥ 'वधो' द्विपदादीनां निर्दयताडनम् , 'बन्धो' रज्ज्वादिभि संयमनम् , 'छविच्छेदः' कर्णादिच्छेदनं 'अतिभारः' शक्त्यनपेक्षं गुरुभारारोपणं 'भक्तपानव्यच्छेदो' अन्नपाननिरोधः, सर्वत्र क्रोधादिति गम्यते, एतांश्च प्रथमव्रतातिचारानाश्रित्य यद्वद्धम् , शेषं प्राग्वत् । वधादीनामतिचारता च प्रागतिचाराधिकारे भावितैव, अनाभोगातिक्रमादिना वा सर्वत्रातिचारताऽवसेया ॥९॥ द्वितीयव्रतमाह - "बीए अणुव्वयंमी, परिथूलगअलियवयणविरईओ। आयरियमप्पसत्थे, इत्थ०" ॥११॥ "द्वितीये अणुव्रते' परीत्यतिशयेन स्थूलकम् -अकीर्त्यादिहेतुरलीकवचनं कन्यालीकादि पञ्चधा, तत्र द्वेषादिभिरविषकन्यां विषकन्यामित्यादि वदतः कन्यालीकम् १, एवमल्पक्षीरां बहुक्षीरां गामित्यादि वदतो गवालीकम् २, परसत्कां भूमिमात्मसत्कां वदतो भूम्यलीकम् ३, उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदापदालीकानाम् , न्यासस्य –धनधान्यादिस्थापनिकाया हरणम् -अपलापो न्यासापहार: ४, अत्र पूर्वत्र चादत्तादानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदानात् कूटसाक्षिकत्वम् ५, अनयोश्च द्विपदाद्यलीकान्तर्भावेऽपिलोकेऽतिगर्हितत्वात् D:\new/d-2.pm5|3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy