Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 437
________________ 'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥] [३९७ पृथगुपादानम् , एतस्य पञ्चविधालीकस्य यद्वचनं -भाषणं तस्य विरतेः, आयरियेत्यादि प्राग्वत् ॥११॥ अस्यातिचारप्रतिक्रमणायाह - "सहसा रहस्सदारे, मोसुवएसे य कूडलेहे य। बीअवयस्सइयारे, पडि०" ॥१२॥[ ] तत्र 'सहस त्ति' 'सूचनात् सूत्रम्' इति सहसा -अनालोच्याभ्याख्यानम् -असद्दोषाधिरोपणं चौरोऽयमित्याद्यभिधानं सहसाभ्याख्यानम् १, रहस्येकान्ते मन्त्रयमाणान् वीक्ष्येदं चेदं च राजविरुद्धादिकमेते मन्त्रयन्ते इत्याद्यभ्याख्यानं रहोऽभ्याख्यानम् २, स्वदाराणां विश्रब्धभाषितस्यान्यस्मै कथनं स्वदारामन्त्रभेदः, ततो द्वन्द्वं कृत्वा तस्मिन् ३, अज्ञातमन्त्रौषधाधुपदेशनं मृषोपदेशस्तस्मिन् ४, अन्यमुद्राक्षरबिन्द्वादिना कूटस्यार्थस्य लेखनं कूटलेखस्तस्मिंश्च, शेषं प्राग्वत् ॥१२॥ इदानीं तृतीयव्रतमाह - "तइए अणुव्वयंमि, थूलगपरदव्वहरणविरईओ । आयरियमप्पसत्थे, इत्थप्प०" ॥१३॥[ ] 'तृतीये अणुव्रते' स्थूलकं राजनिग्रहादिहेतु: परद्रव्यहरणं तस्य विरतिरित्यादिप्राग्वत् ॥१३॥ अस्यातिचारप्रतिक्रमणायाह - "तेनाहडप्पओगे, तप्पडिरूवे विरुद्धगमणे य । कूडतुलकूडमाणे, पडि०" ॥१४॥ स्तेनाः -चौरास्तैराहृतं -देशान्तरादानीतं किञ्चित् कुङ्कमादि तत्समर्घमितिलोभाद्यत्काणत्रयेण गृह्यते तत् स्तेनाहृतम् १ 'पओगि त्ति' सूचनात् तस्करप्रयोगः, तदेव कुर्वन्तीति तस्कराः -चौराः तेषामुद्यतकदानादिना हरणक्रियायां प्रेरणं प्रयोगः २ 'तप्पडिरूव त्ति' तस्य - प्रस्तुतकुङ्कमादेः प्रतिरूपं -सदृशं कुसुम्भादि कृत्रिमकुङ्कमादि वा, तत्प्रक्षेपेण व्यवहारः तत्प्रतिरूपव्यवहार: ३, विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्र ताभ्यामननुज्ञाते वाणिज्यार्थं अतिक्रमणं -गमनं विरुद्धगमनम् ४, कूटतुलाकूटमानं तन्न्यूनाधिकाभ्यां व्यवहरत: ५, यदाह –'उचियं मोत्तूण कलं, दव्वाइकमागयं च उक्करिसं ।निवडियमवि जाणंतो, परस्स संतं न गिण्हिज्जा' ॥१॥[ श्रा.प्र.२६९] एतेषु क्रियमाणेषु यद्बद्धमित्यादि प्राग्वत् ॥१४॥ १. विशुद्ध० इति श्राद्धदिनकृत्ये प० ८७ ॥ २. C.P. तेणा” मु० ॥ ३. इतोऽग्रे C. मूल पाठः [संबोध प्र० श्रा० ७०२९] । D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500