________________
दैवसिकप्रतिक्रमणविधिः-श्लो० ६५॥]
[३७९ इत्यादि सूत्रं न पठन्ति, 'नमोऽस्तु वर्द्धमानाय' इत्यादिस्थाने 'संसारदावानल' इत्यादि च पठन्ति, रात्रिकप्रतिक्रमणे तु विशाललोचनेत्यादिस्थाने । केचित् तु स्त्रीणां पूर्वाध्ययनेऽनधिकारित्वात् नमोऽस्तु वर्द्धमानेत्यादीनां च पूर्वान्तर्गतत्वेन सम्भाव्यमानत्वान्न पठन्तीत्याहुः । यच्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्तं 'नमो खमासमणाणं' इति गुरुनमस्कारः साधुश्राद्धादिभिर्भण्यते, तन्नृपाद्यालापेषु प्रतिवार्ताप्रान्तं जीवेत्यादिभणनवत् श्रीगुरुवच: प्रतीच्छादिरूपं सम्भाव्यते । स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः । तत उदारस्वरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वे सावधानमनसः कृताञ्जलयः शृण्वन्ति । स्तवनभणनानन्तरं च सर्वजिनस्तुतिरूपं 'वरकनक' इत्यादि पठित्वा चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते । ।
अत्र च देवगुरुवन्दनं नमोऽर्हत्सिद्धेत्यादेरारभ्य चतुःक्षमाश्रमणप्रदानं यावत् ज्ञेयम् , श्राद्धस्य तु 'अड्डाइज्जेसु' इत्यादि भणनावधि ज्ञेयम् । इदं च देवगुरुवन्दनं प्रतिक्रमणस्य प्रारम्भे अन्ते च कृतम् , 'आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्' इति न्यायात् सर्वत्राप्यवतरतीति । यथा शक्रस्तवस्यादावन्ते नमो इति भणनम् । ततोऽपि 'द्विर्बद्धं सुबद्धं भवति' इतिन्यायेन पूर्वं चारित्राद्याचारशुद्ध्यर्थं कृतेष्वपि कायोत्सर्गेषु पुनः प्राणातिपातविरमणाद्यतिचाररूपदैवसिकप्रायश्चित्तविशोधनार्थं चतुश्चतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गं कुरुते । अयं च कायोत्सर्गः सामाचारीवशेन कैश्चित् प्रतिक्रमणस्यादौ कैश्चित् त्वन्ते क्रियते । तदनु तथैव पारयित्वा चतुर्विंशतिस्तवं च मङ्गलार्थं पठित्वा क्षमाश्रमणद्वयपूर्वं मण्डल्यामुपविश्य सावधानमनसा स्वाध्यायं कुरुते मूलविधिना, पौरुषी यावत् सम्पूर्णा स्यात् ।
अत्राह पर: -ननु प्रतिक्रमणं पञ्चाचारविशुद्ध्यर्थं प्रागुक्तम् , अत्र तु ज्ञानदर्शनचारित्राचाराणामेव यथास्थानं शुद्धिरुक्ता, न च तपो-वीर्याचारयोः, तथा च प्रतिज्ञाहानिरितिचेत् ? मैवम् , एतच्छुद्धिर्ज्ञानाद्याचारानन्तरीयका इति प्रतिपादितैव । तथाहि -सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य श्राद्धस्यापि कृतान्यतरप्रत्याख्यानस्य तद्भवति । प्रातरपि षाण्मासिकप्रभृतिनमस्कारसहितान्तं प्रत्याख्यानं करोतीति स्फुटैव तपआचारशुद्धिः । यथाविधि यथाशक्ति च प्रतिक्रामतो वीर्याचारशुद्धिरपि प्रतीतैवेति । अविधिना च कृते प्रायश्चित्तम् , तथा हि-काले आवश्यकाकरणे चतुर्लघुः, मण्डल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्लघुः, निद्राप्रमादादिना प्रतिक्रमणे न मिलितः तत्रैकस्मि कायोत्सर्गे भिन्नमासः, द्वयोर्लघुमासः, त्रिषु गुरुमासः, तथा गुरुभिरपारिते कायोत्सर्गे स्वयं पारणे गुरुमासः, सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः, एवं वन्दनेष्वपि योज्यमिति व्यवहारसूत्रे ।
D:\new/d-2.pm5\3rd proof