________________
३७८]
। [धर्मसंग्रहः-द्वितीयोऽधिकारः ___एवं चारित्राद्याचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थं 'सुअदेवयाए करेमि काउस्सग्गं अन्नत्थ' इत्यादि च पठित्वा श्रुताधिष्ठातृदेवतायाः स्मर्तुः कर्मक्षयहेतुत्वेन श्रुतदेवताकायोत्सर्गं कुर्यात् । तत्र च नमस्कारं चिन्तयति । देवताधाराधनस्य स्वल्पयत्नसाध्यत्वेनाष्टोच्छासमान एवायं कायोत्सर्ग इत्यादि हेतुः सम्भाव्यः । पारयित्वा च तस्याः स्तुतिं पठति 'सुअदेवया भगवई' इत्यादि, अन्येन दीयमानां वा शृणोति । एवं क्षेत्रदेवताया अपि स्मृतिर्युक्तेति तस्याः कायोत्सर्गानन्तरं तस्या एव स्तुति भणति । यच्च प्रत्यहं क्षेत्रदेवतायाः स्मरणं, तत् तृतीयव्रतेऽभीक्ष्णावग्रहयाचनरूपभावनायाः सत्यापनार्थं सम्भाव्यते ।
ततः पञ्चमङ्गलभणनपूर्वं सन्दंशकं प्रमृज्योपविशति, ततो मुखवस्त्रिकां कायं च प्रतिलिख्य श्रीगुरूणां वन्दनके दत्त्वा 'इच्छामो अणुसट्ठिम्' इति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्धेतिपूर्वकं स्तुतित्रयं पठति । इदं च पूर्वोक्तवन्दनकदानं श्रीगुर्वाज्ञया कृतावश्यकस्य विनेयस्य मया युष्माकमाज्ञया प्रतिक्रान्तमिति विज्ञपनार्थम् । लोकेऽपि राजादीनामादेशं विधाय प्रणामपूर्वकं तेषामादेशकरणं निगद्यते, एवमिहापि ज्ञेयम् । एतदर्थश्चायं 'इच्छामः' अभिलषामः, 'अनुशास्ति' गुर्वाज्ञाम् प्रतिक्रमणं कार्यमित्येवंरूपां, तां च वयं कृतवन्तः स्वाभिलाषपूर्वकम् , न तु राजवेष्ट्यादिना । इत्थं सम्भावनाविधानं च 'इच्छामो अणुसट्ठिम्' इति भणनानन्तरं श्रीगुरूणामादेशस्याश्रवणात् । एवं च प्रतिक्रमणं सम्पूर्ण जातम् । तत्सम्पूर्णीभवनाच्च सम्पन्ननिर्भरप्रमोदप्रसराकुलवर्द्धमानस्वरेण वर्द्धमानाक्षरं तीर्थनायकत्वात् श्रीवर्द्धमानस्य स्तुतित्रयं नमोऽस्तु वर्द्धमानाय' इत्यादिरूपं श्रीगुरुभिरेकस्यां स्तुतौ पाक्षिकप्रतिक्रमणे तु श्रीगुरुपर्वणोविशेषबहुमानसूचनार्थं तिसृष्वपि स्तुतिषु भणितासु सतीषु सर्वे साधवः श्राद्धाश्च युगपत् पठन्ति । "बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् ।
अनुग्रहार्थं सर्वज्ञैः, सिद्धान्तः प्राकृतः कृतः" ॥१॥[] इत्याधुक्तेः स्त्रीणां संस्कृतेऽनधिकारत्वसूचनात् साध्व्यः श्राविकाश्च 'नमोऽर्हत्सिद्ध'
१. कायोत्सर्ग पूरा करके सिद्धस्तव पढे....उसके बाद भवनदेवी (शय्यादेवी) का कायोत्सर्ग करे उसमें २७ श्वासोश्वास पूरे करे यह आवश्यकचूर्णिका अभिप्राय है, परन्तु आचरणासे ८ श्वासोच्छास पूरे करते है। इति प्रतिक्रमणविधिसङ्ग्रहे पंन्यास श्रीकल्याणविजयलिखिते पृ ३० ॥ २. P.L. प्रतिक्रमणविधिप्रकाशे च प० ३६ । तां-मु० नास्ति ।। ३. L.P.C. प्रतिक्रमणविधिप्रकाशे च । प्रणामान मु० ॥ ४. L.P. प्रतिक्रमणविधिप्रकाशे च । स्य० मु० C. ||
D:\new/d-2.pm5\3rd proof