________________
दैवसिकप्रतिक्रमणविधिः-श्लो० ६५॥]
[३७७ कायोत्सर्गं करोति । सामायिकसूत्रं च सर्वं धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलमिति प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः पुनस्तत्स्मृत्यर्थमुच्चार्यमाणं गुणवृद्धये एव । आह च -
"आइमकाउस्सग्गे, पडिक्कमतो अकाउ सामइअं। तो किं करेइ बीअं, तइअंच पुणो वि उस्सग्गे? ॥१॥[आव.नि./१६९५ ] समभावंमि ठिअप्पा, उस्सग्गं करिअ तो अ पडिक्कमइ।। एमेव य समभावे, ठिअस्स तइअंपि उस्सग्गे ॥२॥[आव.नि./१६९६] सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं। संतगुणकित्तणेसुं , न हुंति पुणरुत्तदोसा उ" ॥३॥ [आव.नि./१६९७ ] इति ।
कायोत्सर्गे च 'चंदेसु निम्मलयरा' इत्यन्तं चतुर्विंशतिस्तवद्वयं चारित्राचारविशुद्ध्यर्थं चिन्तयति । पारयित्वा च कायोत्सर्गं सम्यग्दर्शनस्य सम्यग्ज्ञानहेतुत्वाज्ज्ञानाद् दर्शनं गरिष्ठमिति ज्ञानाचारात् पूर्वं दर्शनाचारविशुद्ध्यर्थं भरतक्षेत्रोत्पन्नत्वेनासन्नोपकारित्वाच्छ्रीऋषभादिस्तुतिरूपं चतुर्विंशतिस्तवं 'सव्वलोए अरिहंतचेइयाणम्' इत्यादिसूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विंशतिस्तवचिन्तनरूपं करोति । तं च तथैव पारयित्वा सामायिकादिचतुर्दशपूर्वपर्यन्त श्रुतज्ञानाचारविशुद्ध्यर्थं 'पुक्खरवरदीवड़े' इत्यादिसत्रं 'सअस्स भगवओ करेमि काउस्सग्गम' इत्यादि च पठित्वैकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गं कुर्यात् । पारयित्वा च तं ज्ञानदर्शनचारित्राचारनिरतिचारसमाचरणफलभूतानां सिद्धानां 'सिद्धाणं बुद्धाणम्' इति स्तवं पठति । इह च चतुर्विंशतिस्तवद्वयचिन्तनरूपोऽयं द्वितीयश्चारित्राचारविशुद्धिहेतुः कायोत्सर्गः एकस्य चारित्राचारशुद्धिहेतुकस्य दिवसातिचारचिन्तनार्थं प्राक्कृतत्वात् , आहुरपि - "दुन्नि अ हुति चरित्ते, दंसणनाणे अ इक्किक्को" [ ] इति वचनात् । अस्मिश्च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्यादिना चतुर्विंशतिस्तवद्वयचिन्तनं सम्भाव्यते, नाग्रेतनयोः तृतीय-चतुर्थयोर्दर्शनाचारज्ञानाचारविशुद्धिहेतुकयोरिति स्थितम् ।
अथ सिद्धस्तवपठनानन्तरं आसन्नोपकारित्वात् श्रीवीरं वन्दते, ततो महातीर्थत्वादिनोज्जयन्तालङ्करणं श्रीनेमिम् , ततोऽपि चाष्टापद-नन्दीश्वरादिबहुतीर्थनमस्काररूपां 'चत्तारिअट्ठदस' इत्यादिगाथां पठति ।
१. C. । तदर्थमेव-L.P. नास्ति ।। २. दिवसातिचारचिन्तनाथ-म० मध्ये कोष्ठके० C. प्रतौ पार्श्वभागे ॥ ३. P.L. । आहुरपि-मु० नास्ति ।।
D:\new/d-2.pm5\3rd proof