SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तृतीयशिक्षाव्रतस्वरूपम् - श्लो० ३९ ॥ ] [ १५७ ऐतेषां चाहारादिपदानां चतुर्णां देश- सर्वविशेषितानामेकद्व्यादिसंयोगजा अशीतिभङ्गा भवन्ति । तथाहि –एककसंयोगाः प्रागुक्ता एवाष्टौ । द्विकसंयोगाः षट्, एकैकस्मिश्च द्विकयोगे देदे १ देस २ सदे ३ सस ४ एवं चत्वारश्चत्वारो भङ्गा भवन्ति, सर्वे चतुर्विंशतिः । त्रिकयोगाश्चत्वारो भवन्ति, एकैकस्मिश्च त्रिकयोगे देशसर्वापेक्षया देदेदे १ देदेस २ देसदे ३ देसस ४ सदेदे ५ सदेस ६ ससदे ७ ससस ८ एवमष्टावष्टौ भवन्ति, सर्वे द्वात्रिंशत् । चतुष्कयोग एकः, तत्र देशसर्वापेक्षया षोडशभङ्गा देदेदेदे १ देदेदेस २ देदेसदे ३ देदेसस ४ देसदेदे ५ देसदेस ६ देससदे ७ देससस ८ सदेदेदे ९ सदेदेस १० सदेसदे ११ सदेसस १२ ससदेदे १३ ससदेस १४ सससदे १५ सससस १६ एवं सर्वेषां मीलनेऽशीतिर्भङ्गाः स्युः । स्थापनायन्त्रकाणि चेमानि - एतेषां मध्ये पूर्वाचार्यपरम्परया समाचारीविशेषेणाहारपोषध एव देशसर्वभेदाद् द्विधापि सम्प्रति क्रियते, निरवद्याहारस्य सामायिकेन सहाविरोधदर्शनात् । सर्वसामायिकव्रतवता साधुना उपधानतपोवाहिश्रावकेणाप्याहरग्रहणात् । शेषास्त्रयः पोषधाः, सर्वत एवोच्चार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधात् । यतः सामायिके "सावज्जं जोगं पच्चक्खामि " इत्युच्चार्यते । शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव । निरवद्यदेहसत्कारव्यापारावपि विभूषादिलोभनिमित्तत्वेन सामायिके निषिद्धावेव । आहारस्य त्वन्यथा शक्त्यभावे धर्मानुष्ठाननिर्वाहार्थं साधुवदुपासकस्याप्यनुमतत्वात् । उक्तं चावश्यकचूर्णी - पोषधस्याशीतिभङ्गयन्त्रकाणि आहारशरीरयोगे ४ एक संयोगादेशत: ४ आ०पो० दे० १ स०पो० दे० २ बं०पो० दे० ३ अ०पो० दे० ४ एककभङ्गाः सर्वतः ४ आ०पो०स० ५ स०पो०स० ६ बं०पो०स० ७ अ०पो०स० ८ आ०पो० दे०स०पो० दे० १ आ०पो० दे०स०पो०स० २ आ०पो० दे०स०पो० दे० ३ आ०पो०स०स०पो०स० ४ १. तुला - श्राद्धप्रतिक्रमणवृत्तिः प० १६३ ॥ D:\new/d-1.pm5\3rd proof आहारब्रह्मयोगे ४ आ-पो० दे० बं०पो० दे० ५ आ०पो० दे०बं०पो०स० ६ आ०पो०स०बं०पो०दे० ७ आ०पो०स० बं०पो०स० ८
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy