________________
१५६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः ___ इयं च व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्याहारादिचतुष्कवर्जनेषु , समवायाङ्गवृत्तौ श्रीअभयदेवसूरिभिरेवमेव व्याख्यातत्वात् । पौषधश्चाहार १ शरीरसत्कार २ ब्रह्मचर्य ३ऽव्यापार ४भेदाच्चतुर्द्धा । एकैकोऽपि देशसर्वभेदाद् द्विधेत्यष्टधा । तत्राहारपोषधो -देशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् १। शरीरसत्कारपोषधो देशतः शरीरसत्कारस्यैकतरस्याकरणम् , सर्वतस्तु सर्वस्यापि तस्याकरणम् २। ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम् , सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनम् ३। कुव्यापारपोषधस्तु -देशत एकतरस्य कस्यापि कुव्यापारस्याकरणम् , सर्वतस्तु सर्वेषां कृषि-सेवा-वाणिज्य-पाशुपाल्य-गृहकर्मादीनामकरणम् ।।
___ इह च देशतः कुव्यापारनिषेधे सामायिकं करोति वा न वा, सर्वतस्तु कुव्यापारनिषेधे नियमात् करोति सामायिकम् अकरणे तु तत्फलेन वञ्च्यते । सर्वतः पोषधव्रतं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते, तत्र च कृते पठति, पुस्तकं वाचयति, धर्मध्यानं ध्यायति, यथा -एतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति आवश्यकचूर्णिश्रावकप्रज्ञप्तिवृत्त्याधुक्तो विधिः ।
योगशास्त्रवृत्तौ त्वयमधिकस्तथाहि -"यद्याहार-शरीरसत्कार-ब्रह्मचर्यपोषधवत् कुव्यापारपोषधमप्यन्यत्रानाभोगेनेत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते, तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात् पोषधप्रत्याख्यानस्य, सूक्ष्मत्वाच्च सामायिकव्रतस्येति । तथा पोषधवताऽपि सावधव्यापारो न कार्य एव । ततः सामायिकमकुर्वंस्तल्लाभाद्भ्रश्यतीति । यदि पुनः सामाचारीविशेषात् सामायिकमिव द्विविधं त्रिविधेनेत्येवं पोषधं प्रतिपद्यते, तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेत्यभिप्रायात् फलवदिति''[ यो०शा०३/ ८५. प० ४८६-७]
१. तुला-आवश्यकचूणिः प० ३०४, पञ्चाशकवृत्तिः प० २५, योगशास्त्रवृत्तिः ३८५ प० ४८६ ॥ २. C.P. | कु(अ)व्यापारपोषधस्तु-मु० । कुव्यापारनिषेधपोषधस्तु-इति योगशास्त्रवृत्तौ प० ४८६ ॥ ३. द्रष्टव्या आवश्य प० ३०४, श्रावकप्रज्ञप्तिवृत्तिः गा० ३२२ प० १९५ ।। ४. 'व्रत' योगशास्त्रवृत्तौ नास्ति ।। ५. सावधव्यापारा न कार्या एव-इति योगशास्त्रवृत्तौ प० ४८७ ॥
D:\new/d-1.pm53rd proof