SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ तृतीयशिक्षाव्रतस्वरूपम्-श्लो० ३९॥] [१५५ एतत्फलं चैवं -यथा हि केनचिन्मान्त्रिकेण सर्वाङ्गगतं विषधरादिविषं निजमन्त्रप्रयोगेण दंश एवाऽऽनीयते, एवं धार्मिकेणाप्येतव्रतयोगेन बहुसावधव्यापारः सङ्क्षिप्याधिकृतदेशमात्रे आनीयते, तत्सझेपे च कर्मणामपि सङ्क्षपस्ततश्च क्रमेण निःश्रेयसावाप्तिरिति ॥३८॥ अभिहितं द्वितीयं शिक्षापदव्रतम् । अथ तृतीयं तदाह - आहार-तनुसत्कारा-ऽब्रह्म-सावद्यकर्मणाम् । त्यागः पर्वचतुष्टय्यां, तद्विदुः पौषधव्रतम् ॥३९॥ पर्वचतुष्टयी अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा तस्याम् , आहार:प्रतीतः तनुसत्कार:-स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्रादिः, अब्रह्ममैथुनम् , सावद्यकर्म -कृषिवाणिज्यादि, एतेषां यस्त्यागस्तत्पौषधव्रतं विदुर्जिना इत्यन्वयः । यतः सूत्रम् - ___ "पोसहोववासे चउव्विहे पण्णत्ते तंजहा -आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, अव्वावारपोसहे" [ प्रत्याख्यानावश्यक सूत्र० ११, हारिभद्रीयवृत्तिः प० ८३५] त्ति । तंत्र पोषं-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते इति पोषधः, स एव व्रतं पोषधव्रतमित्यर्थः । पोषधोपवास इत्यप्युच्यते । तथाहि –पोषध उक्तनिर्वचनोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेनोपवसनम् –अवस्थानं पोषधोपवासः, अथवा पोषधःअष्टम्यादिपर्वदिवस: उपेति सह उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वास उपवासः । यथोक्तम् - "उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह। उपवासः स विज्ञेयो, न शरीरविशोषणम्" ॥१॥ [ध.बि.३/१८ टीका ] इति । ततः, पोषधेषूपवास: पोषधोपवासः। आवश्यकवृत्तावित्थं व्याख्यातत्वात्। तथाहि - "इह पोषधशब्दो रूढ्या पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व धर्मोपचयहेतुत्वादित्यर्थः । पोषधेषूपवासनं पोषधोपवास: नियमविशेषाभिधानं चेदमिति" [आवश्यकहारिभद्रीयवृत्तिः प० ८३५] । १. तुला-आवश्यकचूर्णिः प० ३०४ ॥ २. तुला-योगशास्त्रवृत्तिः ३/८५, प० ४८५ ॥ ३. पौषध० इति आवश्यकहारिभद्रयां वृत्तौ ।। ४. पौषधे उपवसनं-इति आवश्यकहारिभद्रयां वृत्तौ ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy