________________
१५४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "एगमुहूत्तं दिवसं, राइं पंचाहमेव पक्खं वा ।
वयमिह धारेह दढं, जावइअं उच्छहे कालं" ॥१॥[सं प्र.श्रा./१२०]
तद् देशावकाशिकं नाम व्रतं ज्ञेयम् । देशे -दिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशः -अवस्थानं देशावकाशः, सोऽत्रास्तीति “अतोऽनेकस्वराद्" [ श्रीसि० ७२-६] इतीके देशावकाशिकम् । यतः सूत्रम् -
"दिसिवयगहिअस्स दिसापरिमाणस्स पइदिणपरिमाणकरणं देसावगासिअं" [ प्रत्याख्यानावश्यके सू० १०, हारिभद्रीयवृत्तिः प० ८९४] ति ।
दिग्वतसक्षेपकरणम् अणुव्रतादिसक्षेपकरणस्याप्युपलक्षणम् , एषामपि सक्षेपस्यावश्यं कर्त्तव्यत्वात् । प्रतिव्रतं च सक्षेपकरणस्य भिन्नव्रतत्वे द्वादश व्रतानीतिसङ्ख्याविरोधः स्याद् , इति सर्वव्रतसङ्केपरूपमिदं व्रतमिति व्यवस्थितम् । अत एव सम्प्रति श्रावकाः प्रत्यहमेतद्वतस्पर्शनाय पूर्वं सप्तमव्रते ये यावज्जीवं गृहीताश्चतुर्दश नियमास्तानेव प्रात: सङ्क्षिप्य गृह्णन्ति सङ्कोचयन्ति च सायं प्रत्याख्यानप्रान्ते “देसावगासिअंपच्चक्खामि" इत्यादिना, गुरुसमक्षं तद् व्रतं च प्रतिपद्यन्ते । उक्तं च -
"देसावगासिअं पुण, दिसिपरिमाणस्स निच्चसंखेवो ।
अहवा सव्ववयाणं संखेवो पइदिणं जो उ" ॥१॥[सं प्र.श्रा./१२२] स्वापाद्यवसरे च विशेषतः सर्वव्रतसङ्केपरूपमिदं ग्रन्थिसहितादिना स्वीकार्यम् । उक्तं च दिनकृत्ये -
"पाणिवहमुसादत्तं, मेहुणदिणलाभणत्थदंडं च ।
अंगीकयं च मुत्तुं , सव्वं उवभोगपरिभोगं ॥१॥[ श्रा.कृ./३०० ] गिहि ह )मज्झं मुत्तूणं, दिसिगमणं मुत्तु मसगजूआई।
वयकाएहिं न करे, न कारवे गंठिसहिएणं" ॥२॥[ श्रा.कृ/३०१] दिणलाभ त्ति-विद्यमानः परिग्रहो दिनलाभश्च प्रातर्न नियमित इदानीं तु तमपि नियच्छामीत्यर्थः । 'वयकाएहिं' ति मनसो निरोद्धमशक्यत्वाद्वाक्कायाभ्यां न करोमि न कारयामीत्यर्थः ।
१. P. सम्बोधप्रकरणे । राई-मु० C. || २. धरेह-मु० P. | धारेह-इति सम्बोधप्रकरणे ॥ ३. तुला-योगशास्त्रवृत्तिः ३८४ प० ४८४ तः ॥ ४. तुला-धर्मबिन्दुवृत्तिः प० ४४, पञ्चाशकवृत्तिः प० २५, योगशास्त्रवृत्तिः प० ४८५ ॥
D:\new/d-1.pm53rd proof