Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 407
________________ सुपात्रदानविधिः-श्लो० ६४॥] [३६७ मातृष्वसम्बिकाजामिभार्याद्यैः पक्तमादरात् । शुचिभिर्युक्तिमद्भिश्च, दत्तं चाद्याज्जनेऽसति ॥८॥ कृतमौनमवक्राङ्गं, वहद्दक्षिणनासिकम् । प्रतिभक्ष्यं समाघ्राणहृतदृग्दोषविक्रियम् ॥९॥ नातिक्षारं न चात्यम्लं, नात्युष्णं नातिशीतलम् । नातिगौल्यं नातिशाकं, मुखरोचकमुच्चकैः" ॥१०॥ तथा- "अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् । स्नानाद्यं च कियत्कालं, भुक्त्वा कुर्यान्न बुद्धिमान् ॥११॥ भुक्त्वोपविशतस्तुन्दं, बलमुत्तानशायिनः । आयुर्वामकटिस्थस्य, मृत्युर्धावति धावतः ॥१२॥ भोजनानन्तरं वामकटिस्थो घटिकाद्वयं । शयीत निद्रया हीनं, यद्वा पदशतं व्रजेत् ॥१३॥[ ] इति । अथोत्तरार्द्धव्याख्या 'संवरणेति( त्यादि') भोजनानन्तरं संवरणं-प्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृतिः -करणम् , सति सम्भवे देव-गुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयम् । यतो दिनकृत्ये - "देवं गुरुं च वन्दित्ता, काउ संवरणं तदा" [ श्रा.दि./२२५ ] इति । तथा 'ततः' प्रत्याख्यानकरणानन्तरं, शास्त्रार्थानां -शास्त्रप्रतिपादितभावनां चिन्तनं - स्मरणं विचारणं वा इदमित्थं भवति न वेति संप्रधारणमितियावत् । कथम् ? 'साई' सह, कैः? 'तज्ज्ञैः', तं शास्त्रार्थं जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः प्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः गुरुमुखाच्छ्रुतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीतिकृत्वा ॥६४॥ सम्प्रति सन्ध्याविषयं यत्कर्त्तव्यं तदाह - सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता । गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा ॥६५॥ 'सायं' सन्द्यासमयेऽन्तर्मुहूर्त्तादर्वाक्, पुनस्तृतीयवारमित्यर्थः । 'जिनाभ्यर्चा' देवपूजनम् , विशेषतो गृहिधर्म इति सण्टङ्कः । एवमग्रेऽपि । अत्र चायं विशेष - उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यम् । यदभाणि दिनकृत्ये १. संवरणेत्यादि-L.P. || २. भवतीति-L. || D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500