________________
सुपात्रदानविधिः-श्लो० ६४॥]
[३६७ मातृष्वसम्बिकाजामिभार्याद्यैः पक्तमादरात् । शुचिभिर्युक्तिमद्भिश्च, दत्तं चाद्याज्जनेऽसति ॥८॥ कृतमौनमवक्राङ्गं, वहद्दक्षिणनासिकम् । प्रतिभक्ष्यं समाघ्राणहृतदृग्दोषविक्रियम् ॥९॥ नातिक्षारं न चात्यम्लं, नात्युष्णं नातिशीतलम् ।
नातिगौल्यं नातिशाकं, मुखरोचकमुच्चकैः" ॥१०॥ तथा- "अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् ।
स्नानाद्यं च कियत्कालं, भुक्त्वा कुर्यान्न बुद्धिमान् ॥११॥ भुक्त्वोपविशतस्तुन्दं, बलमुत्तानशायिनः । आयुर्वामकटिस्थस्य, मृत्युर्धावति धावतः ॥१२॥ भोजनानन्तरं वामकटिस्थो घटिकाद्वयं ।
शयीत निद्रया हीनं, यद्वा पदशतं व्रजेत् ॥१३॥[ ] इति । अथोत्तरार्द्धव्याख्या 'संवरणेति( त्यादि') भोजनानन्तरं संवरणं-प्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृतिः -करणम् , सति सम्भवे देव-गुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयम् । यतो दिनकृत्ये -
"देवं गुरुं च वन्दित्ता, काउ संवरणं तदा" [ श्रा.दि./२२५ ] इति ।
तथा 'ततः' प्रत्याख्यानकरणानन्तरं, शास्त्रार्थानां -शास्त्रप्रतिपादितभावनां चिन्तनं - स्मरणं विचारणं वा इदमित्थं भवति न वेति संप्रधारणमितियावत् । कथम् ? 'साई' सह, कैः? 'तज्ज्ञैः', तं शास्त्रार्थं जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः प्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः गुरुमुखाच्छ्रुतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीतिकृत्वा ॥६४॥ सम्प्रति सन्ध्याविषयं यत्कर्त्तव्यं तदाह -
सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता ।
गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा ॥६५॥ 'सायं' सन्द्यासमयेऽन्तर्मुहूर्त्तादर्वाक्, पुनस्तृतीयवारमित्यर्थः । 'जिनाभ्यर्चा' देवपूजनम् , विशेषतो गृहिधर्म इति सण्टङ्कः । एवमग्रेऽपि । अत्र चायं विशेष - उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यम् । यदभाणि दिनकृत्ये
१. संवरणेत्यादि-L.P. || २. भवतीति-L. ||
D:\new/d-2.pm5\3rd proof