SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३६६] [धर्मसंग्रहः-द्वितीयोऽधिकारः न कहिं पि त्ति न कस्मिन् सूत्रे प्रतिषिद्धं, प्रत्युत देशनाद्वारेण राजप्रश्नीयोपाङ्गे केशिनोपदेशितम् । तथाहि - "मा णं तुमं पएसी ! पुटिव रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि" इत्यादि । ___तथा मातृ-पितृ-भ्रातृ-भगिन्यादीनामपत्य-स्नुषादीनां ग्लान-वृद्धगवादीनां च भोजनाधुचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्वं सात्म्याविरोधेन भुञ्जीत । यतः - "पितुर्मातुः शिशूनां च, गर्भिणीवृद्धरोगिणाम् । प्रथमं भोजनं दत्त्वा, स्वयं भोक्तव्यमुत्तमैः ॥१॥[] चतुष्पदानां सर्वेषां, धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः, स्वयं भुञ्जीत नान्यथा ॥२॥[ ] सात्म्यलक्षणं च पञ्चत्रिंशद्गुणेषूक्तमेव । इत्थं च लौल्यपरिहारेणाभक्ष्यानन्तकायादिबहुसावद्यवस्तुवर्जं यथाग्निबलं भुञ्जीत । नीतिशास्त्रे त्वेवमुक्तम् – "अधौतमुखहस्ताङ्घिनग्नश्च मलिनांशुकः । सव्येन हस्तेनानात्तस्थालो भुञ्जीत न क्वचित् ॥१॥ एकवस्त्रान्वितश्चार्द्धवासावेष्टितमस्तकः । अपवित्रोऽतिगॉश्च, न भुञ्जीत विचक्षणः ॥२॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यङ्कस्थो विदिग्याम्याननो नाद्यात् कृशाननः ॥३॥ आसनस्थपदो नाद्यात् , श्वचण्डालैर्निरीक्षितः । पतितैश्च तथा भिन्ने, भाजने मलिनेऽपि च ॥४॥ अमेध्यसम्भवं नाद्याद् दृष्टं भ्रूणादिघातकैः । रजस्वलापरिस्पृष्टमाघ्रातं गोश्वपक्षिभिः ॥५॥ अज्ञातागममज्ञातं, पुनरुष्णीकृतं तथा । युक्तं चबचबाशब्दैर्नाद्याद् वक्रविकारवान् ॥६॥ आह्वानोत्पादितप्रीतिः, कृतदेवाभिधास्मृतिः । समे पृथावनत्युच्चैर्निविष्टो विष्टरे स्थिरे ॥७॥ १. 'कहिचि पडिसिद्धति न कस्मिंश्चिदङ्गोपाङ्गादिसूत्रे प्रतिषिद्धम्' । इति श्राद्धदिनकृत्यवृत्तौ प० ४१९॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy