________________
सुपात्रदानविधिः- श्लो० ६४ ॥ ]
“अभयं सुपत्तदाणं, अणुकंपाउचिअकीत्तिदाणं च ।
दोहि वि मुक्खो भणिओ, तिण्णि वि भोगाइअं दिति" ॥१॥ [र.सं./ १७७ ]
पात्रता त्वेवमुक्ता -
-
"उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मद्दिट्ठी, जहन्नपत्तं मुणेअव्वं ॥१॥ [ गाथा./१४४]
तथा च- ‘“मिथ्यादृष्टिसहस्त्रेषु वरमेको ह्यणुव्रती ।
"
[ ३६५
अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥१॥[ ] महाव्रतिसहस्त्रेषु, वरमेको हि तात्त्विकः ।
तात्त्विकस्य समं पात्रं, न भूतं न भविष्यति” ॥२॥[]
एवं साध्वादिसंयोगे ऽवश्यं सुपात्रे दानं विवेकिना विधेयम्, तथा यथाशक्ति तदवसराद्यायातसाधर्मिकानपि सह भोजयति, तेषामपि सुपात्रत्वात् । वात्सल्यमपि महते फलाय । यतो दिनकृत्ये -
" साहम्मिआण वच्छल्लं, कायव्वं भत्तिनिब्भरं ।
देसिअं सव्वदंसीहिं, सासणस्स पभावणं ॥ १॥ [ श्रा. दि. / २००] तद्विधिस्तु वार्षिककृत्याधिकारे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः, न प्रत्यावर्त्तयति तान्निराशान् न कारयति कर्मबन्धम्, न भवति निष्ठुरहृदयः, भोजनावसरे हि द्वारपिधानादि न महतां दयावतां वा लक्षणम् । यतः -
"नेव दारं पिहावेइ, भुंजमाणो सुसावओ ।
अणुकंपा जिणिदेहिं, सड्डाणं न निवारिआ ॥१॥ [ श्रा.दि./२२१ ]
गुण पाणिनिवहं, भीमे भवसायरंमि दुक्खत्तं ।
अविसेस ओऽणुकंपं, दुहा वि सामत्थओ कुणइ" ॥२॥ [ द.प्र./२५८ ]
दुहा वित्ति द्रव्यभावाभ्यां द्विधा, द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादावपि श्राद्धवर्णनाधिकारे - " अवंगुयदुवारा " [ भ.सू. ] इत्युक्तम्, श्रीजिनेनापि सांवत्सरिकदानेन दीनोद्धार कृत एव न तु केनापि प्रतिषिद्धः " सव्वेहिं पि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं ।
अणुकंपादाणं सड्ढयाण न कहिं पि पडिसिद्धं " ॥१॥[ गाथा./१९०]
१. कहिं पि- मु० । कहिंचि - L. P. C. श्राद्धदिनकृत्ये ।
D:\new/d-2.pm5\3rd proof